________________
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥११॥ [ सिद्धये वर्षमान ! स्तात ताम्रा यन्नखमण्डलीः ।
प्रत्यूहशलभप्लोऽषे दीप्रदीपाङ्करा यते ! ॥११॥ [१ शलभ+प्लः = शलभप्लः । २ 'अष्' ' धातोः उभयपदिनः प्रथमपुरुषैकवचनम् ।
__ व्याख्या हे यते ! जितेन्द्रिय ! हे वर्धमान ! वीरजिन ! त्वं सिद्धये 'षिधू गत्याम्' [३२०] 'गत्यार्था ज्ञानार्थाः' इति सेधनं स्त्रियां क्तौ सिद्धिर्ज्ञानं भति-श्रुता-ऽवधिमैनःपर्यय केवेलरूपं . पञ्चप्रकारं तस्यै स्ताद् भवेदिति सम्बन्धः । पूर्वार्धे स इति ग्रहणेनोत्तरत्र यन्नखमण्डलीर्यस्य नखश्रेणीरर्थात् पदयोरहम् अषे आश्रये 'अषी असी गत्यादानयोश्च' [९३१] इति गमनार्थादषेर्धातोर्वर्तमानात्मनेपदीयास्मदर्थैकवचने अषे इति रूपम् । नखमण्डली किम्भूता ? दीप्रो दीपनशीलो यो दीपाङ्करस्तद्वैद् ई लक्ष्मीः शोभा. यासां ताः दीप्रदीपाकुराः । अत एव किम्भूताः ? ताम्रा रक्ताः । यतोऽहं कथम्भूतः ? प्रत्यूहा विघ्नास्त एव शलभाः पतङ्गास्तेभ्यः 'प्लुङ गतौ' [५९८] इति धातोः प्लवे गच्छामि नश्यामि 'क्वचित्' [५।१।१७१] डे “डित्यन्त्य०" [२।१। ११४] इति अन्त्यस्वरादिलोपे प्रत्यूहशलभप्लः । यथा प्रदीपः शलभान् हन्ति, तथैता अपि मम विघ्नान् हनिष्यन्तीति अभिप्रायेण संश्रये इत्यर्थः ॥११॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥१२॥ [ सिद्धये वर्धमान ! स्तात् ताम्रा यत् नखमण्डलीं ।
प्रत्यूह शलभप्लोऽषेदी4दीपां कुंराय ते ॥१२॥] [१ ताम्र+अस्=ताम्रास्=ताम्राः प्रथमैकवचनम् । २ मण्डली+ईम्=मण्डलीम् । अत्रत्यम् 'ईम्' पदम् ‘अषेत्' इत्यस्य कर्मरूपम् । अनुस्वारो न गण्यः पूर्ववत् । ३ 'निरन्तरम्' इत्यर्थे क्रियाविशेषणम् । ४ शल+अभप्रः = शलभप्ल:-प्रथमैकवचनम् । ५ 'अषेत्' क्रियापदम् । ६ ईप्रदीपाम् द्वितीयान्तम् 'अषेत्' इत्यस्य कर्म । ७ 'कुराय' तथा 'ते'-तुभ्यम्-चतुर्थ्यन्तम् ।]
व्याख्या-हे वधमान । वीर! । त्वं सिद्धये 'षिधू गत्याम्' [३२०] इति धातोः क्तौ सिद्धिर्गतिः सद्गतिस्तस्यै स्तादिति संटङ्कः । त्वं किम्भूतः ? सुवर्ण
१ अत्र 'तद्वद् ई' इति पाठे दीप्रदीपाकुर+ई='दीप्रदीपाङ्कुरे' इति स्यात् , नैतद् इष्टम् । अतः 'दीप्रदीपाकुराः' इति निष्पादनाय 'तद्वद् आः' इति पाठः समुचितः। “पूजायामपि माङ्गल्ये आकारश्च"-[एकाक्षरको० श्लो० १] इति वचनात् अर्थस्यापि सुसांगत्यम् । ततश्च दीप्रदीपाकुर+आ-दीप्रदीपाकुराः इति भवेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org