________________
१०
इति चानुकृष्टहिंसाऽर्थात् शठति हिनस्तीति क्विपि सौ "धुटस्तृतीयः [२।११७६] इति ठस्य डत्वे ड-लयोरक्याल्लत्वे प्रत्यूहशल विघ्नविघातकमित्यर्थः ॥९।।
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाकुरायते ॥१०॥ [सिद्धये वर्धमान ! स्तात् तोऽम्लायन् न-खमण्डली ।
प्रत्यूहश ! लैंभप्लो ! दीप दीपांकुरायते ॥१०॥] [१ ता+अम्लायन्=ताऽम्लायन् प्रथमैकवचनम् ‘वर्धमान' इत्यस्य विशेषणम् । २ न+खम् (नश्च खश्च नखम् ) तस्य मण्डलं यस्यास्ति । 'वर्धमान' इत्यस्य विशेषणम् । ३ प्रति+इ+ऊ+ह+शोभ-प्रत्यूहश ! संबोधनैकवचनम् । ४ ल+भ+प्र-लभप्र! संबोधनम् । ५ उ+षा+ई-(बहुव्रीहिसमासे) उषे! संबोधनम् । ६ दीप्रदीप ! संबोधनम् । चित्रकाव्यत्वेन अनुस्वारो निरर्थकोऽपि पूरितः । ७ अ+कु-अकु+रायति-(बहुव्रीहिसमासे) अकुरायते ! संबोधनम् ।]
व्याख्या-प्रगता 'अयि गतौ' [७९०] क्तौ तिर्ज्ञानं तत्त्वातत्वविवेचनरूपं यस्मात् स प्रतिः । यः इः कामस्तस्य 'अव रक्षण०' [४८९] इति दहनार्थात् “भ्यादिभ्यो वा" [५।३।११५] इति क्विपि ऊर्दहनं तस्मिन् । “हो निपाते च हस्ते दारुणि शूलिनि" [ ] इत्येकाक्षरोक्तेः हः शिवः स इव शोभसे इति "क्वचित्" [५।१।१७१] डे प्रत्यूहशस्तस्य सम्बो० । तथा “ल इन्द्रे चलनेऽपि च" [ ] इत्येकाक्षरनाममालावचनात् लेन इन्द्रेण भातीति "क्वचित्" [५।१।१७१] डे लभः स्वर्गस्तं स्वसेवकानां प्राति पूरयति ददातीति यावत् "आतो०" [५।१७६] डे लभप्रः र-लयोरैक्यात् सम्बो० हे लभप्ल ! । तथा उः शिवस्तद्वत् षा श्रेष्ठा जगद्व्यापिका ईः केवलज्ञानलक्ष्मीर्यस्य स समासान्तस्यानित्यत्वात् कजभावः उषेः तस्य सम्बो. हे उषे ! “अदेतः स्यमोः०" [११४४४] इति लुक् । तथा दीप्यते इत्येवंशील: "स्म्यजस-हिंस-दीप०" [५।२।७९] इति रे दीपो दीपनशीलो यो दीपनं घनि दीपः कान्तिर्यस्य स तस्य सम्बो० हे दीप्रदीप ! । तथा अकु: अकुत्सितो रै शब्दे' [८] इत्यतः "इ-किश्तिव्" [५।३।१३८] इति तिप्रत्यये रायतिः शब्दो यस्य स तस्य सम्बो० हे अकुरायते ! श्लेषत्वादनुस्वाराभावः । हे वर्धमान ! वीरजिन ! त्वं सिद्धये अष्टमहासिद्धिभ्यः स्तादिति सम्बन्धः अर्थात् सेवकानाम् । त्वं किम्भूतः ? ता चतुस्त्रिंशदतिशयरूपा लक्ष्मीः, तया अम्लायन् न म्लानीभवन्नित्यर्थः । पुनः किं० "नस्तु संविदि" [ ] इत्येकाक्षरवचनात् नो ज्ञानम्, खानि सौख्यानि, तेषां मण्डलं विद्यते यस्य स न-खमण्डली “अतोऽनेकस्वरात्" [७।२।६] इति इन् ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org