________________
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥९॥ [ सिद्धये वर्धमान ! स्तात् ताम्रा यन्नैखमण डली । 'प्रत्यूहशलभैप्लोषेदी प्रदीप कुरा यते ! ॥९॥
[१ 'ताम्रास' इत्यस्य ताम्राः प्रथमैकवचनम् । २ यन्नखम् प्रथमैकवचनम् । ३ अं प्रति डलि तिरस्कारकम् । अम्+ड='अण्ड' इति सन्धिः । ४ 'लड्' इत्यस्य लडि, व्यत्यये डलि । ५ डलि+इम्-डलीम् । ई प्रति डलि । ६ प्रत्यूहशल 'यन्नख' इत्यस्य विशेषणम् । ७ अभ-. प्लोष ! संबोधनैकवचनम् । ८ ईदीप्रदीपा तृतीयैकवचनम् । चित्रकाव्ये सन्तोऽपि अनुस्वारविसर्गा न गण्यन्ते, असन्तोऽपि ते पूर्यन्ते-इत्येवं सर्वत्र बोध्यम् । ९ कुराः 'यन्नख' इत्यस्य विशेषणम् । १० यते ! संबोधनैकवचनम् । 1
व्याख्या-यतिनाथत्वाद् यतिः अथवा जितेन्द्रियत्वाद् यतिस्तस्य सम्बो० हे यते ! वर्धमान ! तथा हे अभप्लोष ! अः कृष्णस्तस्माद् भवतीति "क्वचित्" [५।१। १७१] डे अभः कामस्तं प्लोषसि दहसीति "कर्मणोऽग्" [५।१।७२] इत्यणि अभप्लोषः तस्य सम्बो० । स त्वं नः अस्माकं सिद्धये मुक्तये स्तादिति सम्बन्धः । स कः ? इत्याह-जातावेकवचने यन्नखं यस्य नखा इत्यर्थः । “अः कृष्णे विनतासूनौ" इत्येकाक्षरोक्तेः अं गरुडम्, तथा ई कामं च प्रति आश्रित्य 'लड जिह्वोन्मन्थने' [१०३६] इति परमते जिह्वा जिह्वा विषया क्रिया उन्मन्थनं चेति अर्थद्वयपाठात् उन्मन्थने अवश्यं लडयति उन्मथ्नाति तिरस्करोतीति यावत् आवश्यकार्थे "णिन् चावश्यकाधमर्से" [५।४।३६] इति णिनि, घटादित्वात् हस्ते लडि तिरस्कारि वर्तते इति क्रियाशेषः । ड-लयोरैक्याद् व्यत्यये डलि-इति । कया ? ई पृथिवी तस्या दीपा दीपनशीला या दीपनं "क्रुत्सम्पदा०" [५।३।११४] इति क्विपि ईदीप्रदीप् तया ईदीप्रदीपा-अयमर्थः-यस्य नखा रक्तवर्णत्वात् गरुडं कामं च तिरस्कुर्वन्ति इत्यर्थः । किम्भूतं यन्नखम् ? ताम्रो रक्तवर्णस्तेन 'असी गत्यादानयोश्च' [९३२] इति चानुकृष्टदीप्त्यर्थाद् असते शोभते इति क्विपि ताम्राः । पुनः कीदृग् ? कुत्सितम् रम् कामम् अस्यन्तीति कुराः । पुनः कीदृग् ? प्रत्यूहान् विघ्नान् ‘शठ कैतवे च' [२२२]
१ “जिह्वोन्मन्थनयोः इति एके। तन्मतसंग्रहार्थ जिह्वाविषया क्रिया उन्मन्थनं चेति समाहारोऽपि" -हैमधातुपा० । “अपरे तु जिह्वा च उन्मथनम् इति समाहारद्वन्द्वं व्याचक्षते" "जिह्वाशब्देन तद्विषयो व्यापारः। धनपालस्तु एवं पठित्वा आर्याणां जिह्वा-उन्मथनयोः इति पाठः इति"-माधवीया धातुवृत्तिः पृ० १३९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org