________________
इति तस्य लोपे, सो रुत्वे, “अवर्ण-भो-भगो." [१।३।२२] इति लोपे दीप्रदीपाङ्कुराः प्रदीपसदृश इत्यर्थः । कस्मिन् ? इः कामस्तथा अः कृष्णस्तयोः समाहारद्वन्द्वे यम् तदेव "तस्तु तस्करे" [ ] इत्येकाक्षरोक्तेस्तस्तस्करस्तस्मिन् य-ते । यथा प्रदीपश्चौरस्य प्रतिकूलस्तथा त्वमपि जगन्मोषकस्य कामस्य, मिथ्यात्वप्रवर्तकस्य विष्णोरपि च प्रतिकूलः । त्वयि तयोः प्रभविष्णुत्वाभावात् । सिद्धये किम्भूतायै ? 'अयि गो' [७९०] 'गत्या ज्ञानार्थाः' इत्यतः स्त्रियां क्तौ प्रकृष्टा तिर्ज्ञानं यस्यासौ प्रतिनिम् । 'कहि वितर्के' [८७०] इति धातोरचि ऊहो वितर्ककृदात्मेत्यर्थः । स एव शलभान् पतङ्गान् प्लोषति दहतीति विचि शलभप्लोट् प्रदीपो यस्यां सा तस्यां प्रत्यूहशलभप्लोषे । सिद्धौ हि ज्ञानरूपो वियुक्तकर्मा प्रदीपसदृश आत्माऽस्तीति ॥७॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥८॥ [ सिद्धयेबैधमानस्ताऽऽत्ताऽम्लाऽऽयं नखमण्डलीः ।
प्रत्यूहशलभप्लोषे दोपदीपाङ्कराय ! ते ॥८॥] [१ सिद्धये प्रथमाया एकवचनम् । २ अर्धमान् द्वितीयाबहुवचनम् 'नखमण्डली विशेषणम् । ३ अस्त+आत्त = अस्तात्त। संबोधनकवचनम् । ४ अम्ल ! संबोधनैकवचनम् । ५ आयम् 'इण'. धातोः यस्तन्याः प्रथमपुरुषैकवचनम् । ६ नखमण्डलीः द्वितीयाबहुवचनम् । ७ दीप्रदीप ! संबोधनैकवचनम्। ८ अङ्कुराय ! संबोधन कवचनम् । ९ 'तव'अर्थसूचकं 'ते'रूपम् । ]
__व्याख्या-हे अस्तात्त ! "असी गत्यादानयोश्च" [९३२] इति गत्यर्थात् क्विपि भावे तलि अस्ता ज्ञानम्, तया आत्त ! स्वीकृत ! । न म्लायसीति "क्वचित्" [५।१।१७१] डे अम्लस्तस्य सं० । प्रत्यूहा विघ्नास्त एव शलभाः पतङ्गास्तेषां प्लोषे दाहे दीप्रदीपस्तस्य सम्बो० । अङ्कुरायसे अङ्कुरवदाचरसि इति अचि अङ्कुरायस्तस्य सम्बो० हे अङ्कुराय ! सर्वदैव जरा-मरणरहितत्वेन नवीनत्वात् प्रस्तावात् श्रीवर्धमान ! ते तव नखमण्डली खश्रेणीः आयम् आश्रितवानित्यर्थः । 'इंणक गतौ' [अदादि १७] ह्यस्तन्या अम्बि रूपम् अस्मदर्थत्वादहमिति कर्ता । यतः किंवि० आ समन्तात् ऋद्धः अर्द्धः अहं याभ्यः सकाशात् ता द्वितीयाशसि समासे एकवचनत्वात् "त्व-मौ प्रत्ययोत्तर०" [२।१।११] इति मादेशे शसो नत्वे अर्द्धमान् । अहं किं० सिद्धानां मुक्तानां या या मुक्तिरूपा लक्ष्मीस्तामीप्सतीति क्विपि सौ 'पदस्य' [२।१।८९] इति सलोपे, पस्य बत्वे सिद्धयेब् मुक्तिवाञ्छक इत्यर्थः ॥८॥
१ अत्र बहुव्रीहिसमासत्वेन 'ज्ञानवान्' इति उचितम् । २ 'प्रत्यूहशलभप्लोषे' इत्यस्य चतुर्थ्यन्तत्वेन अन 'तस्यै' इति उचितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org