________________
षठ्या प्रत्यूहः श्लेषत्वाद् विसर्गाभावः । अन्योऽपि शलभः प्रतिकूलं दीपशिखायां स्वर्णभ्रान्तिरूपम् ऊहं करोति, अग्निना च दह्यते इति । वर्धमानः किं० खं आकाशं 'मगु गतौ' [८५] इत्यतो मङ्गति गच्छतीति क्विपि “पदस्य" [२।११८९] इति गलोपे खमन् पक्षी प्रस्तावाद् हंसः, तद्वत् । 'लड विलासे' [२५४] लडतीति क्विपि लड सविलासम् । 'ईङ्च् गतौ' [१२५२] ईयते गच्छतीति क्विपि खमण्डलीः कलहंसवत् सविलासगामीत्यर्थः । ल-डयोरैक्याद् व्यत्ययः । पुनः किं० "तस्तु तस्करे" [ ] इत्येकाक्षरवचनात् तश्चौरः, तत्सदृशोऽपि रागोऽपि तस्य । 'अट्टि हिंसाऽतिक्रमयोः' [६७४] इत्यतो हिंसार्थात् क्विपि “पदस्य" [२।१४८९] इति पदान्तलोपे अत् तस्य भावः, भावे तलि अत्ता विदारणं तस्मिन् न म्लायतीति क्विपि ताऽत्ताऽम्लाः । पुनः किं० 'षिधू गत्याम्' [३२०] सेधति जानाति तत्त्वातत्त्वमिति विवपि सित् तत्त्वज्ञ इत्यर्थः ॥६॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥७॥ [ सिद्धये वर्धमान ! स्तात् ताम्रायन्नख ! मैं डैलीः।
प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करा य-ते ॥७॥] [द्वितीयपुरुषैकवचनं पञ्चम्याः कियापदम् 'अस्'धातोः । २ इदं ‘वर्धमान' इत्यस्य विशेषणम् संबोधन-एकवचनम् । ३ मं' द्वितीयान्तं माम्' इत्यर्थे । ४ ड+लीः = डलीः प्रथमान्तम् एकवचनम् । ५ प्रअय्+ति-प्रति-ऊह-प्रत्यूह. अत्र प्रतिः प्रकृष्टज्ञानवान् तथा ऊहः आत्मा तपः स एव शलभप्लोष-शलभप्लोषे चतुर्थ्याः एकवचनम् । ६ दीप्रदीपाकुराः प्रथमाया एकवचनम् । ७ इ+अन्य+तम्यते सप्तम्या एकवचनम् ।]
व्याख्या-ताम्रा रक्तवर्णा अयन्तः इशब्दादाचारे क्विपि घातुत्वे शतरि कामवदाचरन्तो नखा यस्य स ताम्रायन्नखस्तस्य सं० । हे वर्धमानजिन ! वीरजिन ! त्वं सिद्धये मोक्षाय मां आचक्षाणो णिजि मदयतीति वाक्ये विपि सौ "णेरनिटि" [४।३।८३] इति णिज्लोपे “त्व-मौ प्रत्ययोत्तर०" [२।१।११] इति मादेशे, परमते सेरमादेशे, “शेषे०" [२।१।८] इति दलोपे में मामाचक्षाणो धर्मोपदेशाय स्ताद् भवतादिति सम्बन्धः। यतस्त्वं किं “डः शिवे ध्वनी" [ ]इत्येकाक्षरवचनात् डः- शब्दः-देशनाध्वनिस्तं लीयसे श्लिष्यसीति क्विपि डलीर्देशनां कुर्वन्नित्यर्थः । पुनः किं. दीप्रो दीपनशीलो यो दीपाङ्कुरः प्रदीपस्तद्वद् 'असी गत्यादानयोश्च' [९३२] इति चानुकृष्टदीप्त्यर्थादसतेः, अससि दीप्यसे इति क्विपि, सौ “दीर्घयाब्०" [१।४।४५
१ "तकारस्तस्करे"-एकाक्षर० सुधा. लो. २३ ।। २ 'डो वृषाङ्के ध्वनावपि'-एकाक्षर० सुधा० श्लो० २१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org