________________
स्त भवत वर्तध्वे इत्यर्थः । यत् यस्माच्चकारो ग्राह्यः च पुनर्यस्याद् यूयं खमण्डलीः ज्ञानश्रेणीर्न अत्त भक्षयत-न हत इत्यर्थः । अग्रे तच्छब्दग्रहणात् तत् तस्मात् कारणाद् यूयं दीप्रदीपवदाचरणं "कर्तुः विप्०" [३।४।२५] इति क्विपि, “शंसिप्रत्ययात्" [५।३।१०५] इत्यप्रत्यये, स्त्रीत्वे "आत्" [२।४।१८] इत्यापि दीप्रदीपा प्रदीपवदाचरणं तां प्रत्यूह प्रतिवहथ स्म । प्रतिपूर्वाद् वहेः परोक्षायुष्मदर्थबहुवचने "यजादि." [४।१७९] इति वृति, "द्विर्धातुः०" [४।१।१] इति द्वित्वे "समानानाम् ०" [११२।१] इति दर्धि सिद्धिः । कस्मिन् ? 'शट रुजा-विशरण-गत्यवसादनेषु' [१७५] इति शटति रुजति इति क्विपि, टस्य डत्वे ड-लयोरैक्ये शल जगत्पं डको यः आत् कृष्णाद् भवतीति "क्वचित्" [५।१।१७१] डे अभः कामः, तस्य प्लोषे विनाशे । यूयम् किं० कुः स्थानम् कस्य ? आयतेौरवस्य ॥५॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्युहशलभप्लोषे दीप्रदीपाकरायते ॥६॥ [सिद्धये ! वर्धमानस्ताऽत्ताऽम्ला यन्न ! खमन्डलीः ।
प्रत्यः शलभः लोषेऽदीप्रदीपाङ्कराय ! ते ॥६॥] [१ सित् प्रथमाया एकवचनम् 'वर्धमानः' इत्यस्य विशेषणम् । २ 'हयि' इत्येवम् इकारान्तस्य शब्दस्य संबोधनैकवचनम् । ३ ताऽत्ताऽम्लाः प्रथमाया एकवचनम् 'वर्धमानः' इत्यस्य विशेषणम् । ४ इ+अन्न-यन्न ! 'हये' इत्यस्य विशेषणं संबोधनरूपम् । ५ खमण्डली (ख+मन+लड्+ई) प्रथमाया एकवचनम 'वर्धमानः' इत्यस्य विशेषणम अत्र 'लट' :
:' इत्यस्य विशेषणम् अत्र 'लड्' इत्यस्य व्यत्यये 'डल' इति बोध्यम् 'मन्' इति च 'मङ्ग' धातोः साध्यम् । ६ षष्टया एकवचनम् 'ते' इत्यस्य षष्ठयन्तस्य विशेषणम् । ७ अदीप्रत् इति कियापदम् । ८ 'ईपाङ्कुराय' इति ‘हये' इत्यस्य विशेषणम् संबोधनरूपम् ।]
व्याख्या-सिद्धये इत्यत्र हये इति "हयिः कामः": [उणादिसू० ६०६] इत्युणादिवचनात् हे हये ! काम !। हे ईपाङ्कुराय। ई लक्ष्मी स्वजायात्वेन पातीति "आतो डः०" [५॥११७६] डे ईपः कृष्णस्तस्य अङ्कुरवत् प्ररोहवदाचरतीति क्यङि, अचि ईपाङ्कुरायस्तस्य सम्बोधनम् । कामो हि विष्णुपुत्र इति । तथाई लक्ष्मीः सैव अन्नमिव अन्न जीवनं यस्य स यन्न तस्य सम्बो । ते तव प्लोषे दाहे वर्धमानो वीरजिनो अदीप्रत् 'अग्नौ वमिर्दीप्रः' [शेषना. देव०ला०प्र० १६६अथवा निर्णय०१७११]इति शेषनिघण्टुवचनात् दीप्र इवाग्निरिवाचरदित्यर्थः । यतस्ते किम्भूतस्य ? शलभ इव पतङ्ग इवाचरतीति क्यङि क्विपि तल्लोपे “अतः" [४।३१७२। इत्यल्लोपे, “य्वोः प्वय्०"[४।४।१२१] इति यलोपे शलभाः तस्य; "लगातोऽनाः" [१।१।१०७] इत्यालोपे शलभः । पुनः किं० प्रतिकूलं परस्त्रीगमनादिरूपम् ऊहं तक करोतति णिजि, स्विपि,तल्लोपे ऊहू, अतः प्रकृते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org