________________
व्याख्या-वर्धमानो जिनः ई लक्ष्मी प्रति स्तात् इति सम्बन्धः । स इति ग्रहणात् यस्य नखाः पादनखारतेष्वतिभक्तत्वान्मण्डल इव इवेवाचरतीति क्यङि, क्विपि, तल्लोपे "अतः” [४।३।८२] इत्यल्लोपे “य्वोः प्वय०" [४।४।१२१] इति यलोपे यन्नखमण्डलाः सप्तम्याम् "लुगातोऽनापः" [२।१।१०७] इत्यालोपे यन्नखमण्डलि यत्पादाम्बुजसेवके इत्यर्थः । सिद्धा सम्पन्ना या लक्ष्मीर्यस्य स सिद्धयः इभ्यजनस्तस्मिन् सिद्धये सति इः काम आकुलायत आकुलोऽभूदित्यर्थः । कोऽर्थः ? यस्य सेवकजने सति कामो भयभ्रान्तोऽभूदित्यर्थः । इः किं० ताम्रवद् 'असी गत्यादानयोश्च' [९३२] इति चानुकृष्टदीप्त्यर्थाद् असति दीप्यते इति क्विपि सो रुत्वे “अवर्ण-भो भगो." [११३।२२] इति रलोपे ताम्रा रक्तवर्णत्वात् । सिद्धये किंभू. 'अव रक्षण' [४८९] इति दीप्त्यर्थात् 'भ्यादिभ्यो वा" [५।३।११५] इति विवपि ऊः कान्तिस्तया कृत्वा "हस्रो दिनम्" [उणादिसू०३८७] इत्युणादिवचनात् हस्रं दिनं करोतीति णिजि, विवपि “न सन्धि०" [७।४।१११] इति स्थानिवद्भावाभावात् "संयोगस्यादौ स्कोलक" [२।१।८८] इति सलोपाभावे "पदस्य" [२।१।८९] इति रलोपे, सस्य रुत्वे विसर्गत्वे च ऊहः सूर्यः तथा शरं जलं र-लयोरैक्यात् शलाद् भवतीति क्वचिड्ढे शलभश्चन्द्रः तौ प्रकर्षण ऊषति कर्मणोऽ" [५।१।७२] इत्यणि ऊषः [प्रोषः]-शलभप्लोषः तस्मिन् ऊहःशलभ प्लोषे श्लेषतो विसर्गाभावः रो लत्वं च । कया ? दीप्रा या-दीपनम्-दीप् कान्तिस्तया ॥४॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥५॥ [सिद्धये वैधमानः स्ताऽत्ताऽऽम्लाः ! यन् न खमण्डलीः ।
'प्रत्यूह शेलभप्लोषे "दीपदीपां कुरायते ॥५॥] [१ वर्धमान् इत्यस्य संबोधनबहुवचनम् । २ 'स्त' इति द्वितीयपुरुषबहुवचनं पञ्चम्याः क्रियापदम् । ३ अत्त इत्यपि 'स्त'वत् क्रियापदम् 'अद्'धातोः। ४ आ+आम्लाः = आम्लाः संबोधनबहुवचनं 'वर्धमानः' इत्यस्य विशेषणम् । ५ 'यत्' इत्यव्ययम् 'यस्मात्'अर्थे । ६ 'न' इति निषेधवाचि अव्ययम् । ७ 'खमण्डलीः' मदीवत् द्वितीयाबहुबचनम् 'अत्त' इत्यस्य कर्मकारकरूपम् । ८ 'प्रत्यूह' 'वह'धातोः प्रतिपूर्वस्य परोक्षायाः द्वितीयपुरुषबहुवचनम् । ९ शट्+अ+भ = शडभ इति । १० द्वितीयाया एकवचनम् । 'प्रत्यूह' इत्यस्य कर्मपदम् । ११ कुः आयतेः इति विभागः।]
व्याख्या-आ लक्ष्मीस्तया न म्लायन्तीति आम्ला इभ्यास्तेषां सम्बोधनम् हे आम्लाः इभ्याः ! यूयं सिद्धये शिवाय वर्धमानो वर्धमानं जिनम् आख्यान्तीति णिजिः, क्विपि वर्धमानिति नन्तप्रकृतेर्जसि वर्धमानः श्रीवीरजिनवक्तारः स्तोतारः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org