________________
विशेषस्तदिव आचरतीति क्यङि “दीर्घश्च्चि"० [४।३।१०८] इति दीर्घे, क्विपि, तल्लोपे "अतः" [४।३।८२] इत्यल्लोपे “य्वोः प्वय" [४।४।१२१] इति यलोपे ताम्रास्तथा इ: कामस्तदिव आचरतीति कर्तुः विपि धातुत्वे शतरि अयन् । द्वयोर्विशेषणसमासे ताम्रायन् । कया ? दीप्रा दीपनशीला या दीपनं "क्रुत्सम्पदादिभ्यः" [५।३।११४] क्विपि-दीप कान्तिस्तया दीप्रदीपा जिनस्य सुवर्णवर्णत्वात्-पीत-रक्तयोरैक्यात्-इति वर्णनम् । पुनः किं० 'लषी कान्ता' [९२७] कान्तिरिच्छा लषतीति विपि सौ "धुटस्तृतीयः" [२।११७६] इति घस्य डत्वे, ड-लयोरैक्यात् व्यत्यये, डल् इव डल् वाञ्छकः । कथम् ? प्रति लक्षीकृत्य । काम् ? ई लक्ष्मीरष्टप्रातिहार्यरूपा [ताम् लक्षीकृत्य] । प्रभोः सर्वत्र तुल्यमनोवृत्तित्वेऽपि कविना अष्टमहाप्रातिहार्यश्रीभोक्तृत्वदर्शनात् तदिच्छा उपचर्यते । सिद्धये किं० 'अव रक्षणे'. [४८९] इति गत्यर्थाद् अवतेः अवन्ति जानन्ति तत्त्वातत्त्वमिति क्विपि "मव्यवि०" [४।१।१०९] इत्युपान्त्येन सहोटि उवो विचक्षणजनास्तेषाम् । 'हो निपाते च हस्ते, दारुणि शूलिनि" [ ] इति एकाक्षरनाममालावचनात् हो हस्तः स एव “शरं जले" [हैम० अने० २,४६५] इत्यनेकार्थात् र-लयोरक्यात् शलं तस्माद् भवतीति "क्वचित्" [५।१।१७१] डे शलभं कमलं करकमलमित्यर्थः तस्मिन् प्रकर्षेण वसतीति क्विपि “यजादिवश्-वचः०” [४।११७२] इति वृति सस्य षत्वे, र-लयोरैक्ये ऊहशलभप्लोट् तस्यै ऊहशलभप्लोषे । पुनः कि० को पृथिव्यां राजतीति "क्वचित्" [५।१।१७१] डे कुरो यः अयः शुभकर्म तम् । 'ताङ पालने [८०६] इति तायते पालयतीति क्विपि “य्वोः प्वय०" [४।४।१२१] इति यलुपि चतुर्थ्याम् । "लुगातोऽनापः" [२।१।१०७] इत्यालोपे कुरायते चित्रत्वाद् विसर्गानुस्वारयोर्भावाभावौ न दोषाय। एवं यथासम्भवं सर्वत्र ज्ञेयम् । ड-लादीनाम् ऐक्यं तु पूर्व कथितमेव ॥३॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥४॥ ['सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डलीम् ।
प्रत्यूहः-शरभप्लोषे दीपदीपाऽऽकुलायते ॥४॥] [ १ 'सिद्धय' शब्दस्य सप्तम्या एकवचनम् ‘यन्नखमण्डलि' इत्यस्य विशेषणम् । २ °ताम्रास्' शब्दस्य प्रथमाया एकवचनम् 'इ' इत्यस्य विशेषणम् । ३ 'यन्नखमण्डला' शब्दस्य सप्तम्या एकवचनम् । ४ मण्डलि+ईम् मण्डलीम् । ५ ईम् प्रति इति संबन्धः । ६ ऊहस-शरभप्रोषे सप्तम्या एकवचनम् । 'सिद्धये इत्यस्य विशेषणम् । ७ प्र.ऊष्+अण-प्रोष् - प्रोषे । ८ तृतीयाया एकवचनम् 'दीप्रदीप' इत्यस्य । ९ आकुलायत मस्तन्याः क्रियापदम् । १० यत+इः = यतेः ।]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org