________________
"भेदो न चित्रकाव्योपयोगिताभाजि रचित एतेषाम् ।
ब-वयोर्ड-णयोर्य-जयोर्ड-लयो र-लयोः क्वचित् श-सयोः" ॥१॥ [ ] स इति ग्रहणात् यन्नखमण्डली यस्य नखश्रेणिः प्रपूर्वात् 'अयि गतौ' [७९०] इत्यतः स्त्रियां क्तौ ' य्वोः प्वय ०" [सिद्धहेम० ४।४।१२१] इति यलोपे, “अतः" [४।३।८२] इति अतो लोपे प्रतिनिम् ऊहस्तर्कस्तावेव शरो मुजाख्यतृणविशेषः। तस्मिन् भातीति "क्वचित्" [५।१।१७१] डे प्रत्यूहशलभप्लोषः 'प्लुशश् स्नेहन-सेचनपूरणेषु' [१५६२] इत्यतो घनि प्लोषः सेचनं तस्मिन् “अङ्कुरं सलिले रोम्णि रुधिरेऽभिनवोद्गमे" इत्यनेकॉर्थवचनाद् अङ्कुरं जलं तद्वदाचरत् इति क्यङि ह्यस्तन्याम् आङ्कुरायत अजलायत-अयमर्थः-यस्य नखश्रेणिनि-विचारतृणसेचने जलवदाचरति स्मेति । यन्नख० किंवि० दीप्रो दोपनशीलो दीपनं घञि दीपः कान्तिर्यस्याः सा दीप्रदीपा । अत एव पुनः किंवि० इ: कामस्तद्वत् ई लक्ष्मीः कान्तिर्यस्याः सा ई समासान्तविधेरनित्यत्वात् कजभावः कामवत् रक्ता इत्यर्थः ॥२॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥३॥ [ 'सिद्धये वर्धमानः स्तात् तीम्राऽयन् नः खेमन् 'डलीम् ।
प्रत्यू हशरभप्लोषे दीपदीपां'' ''कुरायते ॥३॥] [१ सिद्ध+ई सिद्धे, अस्य चतुर्थ्या एकवचनम् । २ इ+विवप्-अयति-शत-अयन् । ताम्र+अयन= ताम्रायन्-प्रथमाया एकवचनम् वर्धमानविशेषणम् । ३ षष्ठीबहुवचनम् । ४ प्रथमाया एकवचनम्, वर्धमानविशेषणम् । ५ लडू इत्यस्य व्यत्यये डल् प्रथमाया एकवचनम् , वर्धमानविशेषणम् । ६ डल+ईम, ईम् प्रति' इति सम्बन्धः । ७ ऊ+ह+शरात् । ८ भवति इति भः । ९ प्र+वस्-प्रोष् प्रोषे चतुर्या एकवचनम् 'सिद्धये' इत्यस्य विशेषणम् । १० तृतीयाया एकवचनम् । ११ कु+राज्-कुर+अय-कुराय । ताय्+क्विप-ता । कुराय+ताम्कुरायताकुरायते चतुर्थ्या एकवचनम् । इदमपि 'सिद्धये' इत्यस्य विशेषणम् ।]
व्याख्या-वर्धमानो जिनः । 'नख'इति । अत्र श्लेषत्वाद् विसर्गलोपे नः अस्माकं सिद्धा सम्पन्ना चासौ ईश्च लक्ष्मीश्च सिद्धे तस्यै सिद्धये स्ताद् भवतादिति सम्बन्धः । वर्धमानः किंभूतः ? खानि इन्द्रियाणि मन्दयति क्षयं नयतीति क्विपि खमन् जितेन्द्रिय इत्यर्थः । अत्र सौ "पदस्य" [२।१।८९] इति दलोपे सिद्धम् । तानं धातु
१ ग्रन्थकारेण सर्वत्र सिद्धहेमसूत्राणां प्राय उपयोगः कृतः । २ अत्र 'प्र+अय+ति' इति अवस्थायां 'य' लोपे कृते 'अ'लोपार्थ ग्रन्थकारेण 'अतः' [४।३।८२] सूत्रं दर्शितम् परन्तु तेन सूत्रेण अकारान्ताद् धातोः विहिते प्रत्यये लोपो विधीयते अतः तत् सूत्रं ग्रन्थकारेण परमता. श्रयणेन प्रवर्तितम् इति ज्ञायते, एवं सर्वत्र बोध्यम् ।
३ “अङ्कुरो रोम्णि सलिले रुधिरेऽभिनवोद्गमे"-हैम० अने० ३,५११ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org