Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 60
________________ ३१ अङ्गीक्रियते इत्यर्थः । भवान् किं. म्लायति शतरि म्लायन् कथम् न-म्लानिमुक्त इत्यर्थः । कथम्भूतः आनस्तात्ता 'अष। असी गत्यादानयोश्च' [९३१, ९३२] इति चानुकृष्टदीप्त्यर्थाद् असतेः क्विपि भावे तलि अस्ता, पश्चान्ना योगे अनस्ता अदीप्तिर्मालिन्यमित्यर्थः । तस्या अयं "तस्येदम्" [६ । ३ । १६०] इत्यणि आनस्तः स चासौ ‘अदं प्सांक् भक्षणे' [१०५९] अत्तीति तृचि अत्ता च भक्षकश्च विनाशकश्चेत्यर्थः । आनस्तात्ता अदीप्तिविनाशक इत्यर्थः । पुनर्भवान् किं० प्रत्यूहशलभप् प्रकृष्टः तानां चौराणाम् अपत्यानि “अतः०” [६ । १ । ३१] इञि तयश्चौरपुत्राः, तेषाम् ऊहो विचारस्तस्य र-लयोरैक्यात् शरो विनाशस्तस्मिन् भपं चन्द्रम् आख्याति णिजि क्विपि प्रत्यूहशलभम् । चन्द्रोद्गमे हि चौराणां चौर्यविषय ऊहोऽपि नश्यति । तस्मिन् चौराणां चौर्य कर्तुमशक्यत्वात् । अत एव 'लूप् मूष स्तेये' [५०१] इति लोषन (णं) घनि लोषः चौर्यम् तस्य अयनं क्तौ इतिर्गमनं तत् करोति णिजि क्विपि लोषेत् ॥२९॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥३०॥ [सिद्धयेवंर्ध ! माऽनॆस्तात् ! तोऽम्रायं नर्खम् अण्डली । 'प्रत्यूहशरभप्लोषे दीदीपाकैराऽयते ॥३०॥] [१ सिद्धय इति क्रियापदम् - पञ्चम्या 'हि' प्रत्यये - नामधातुरूपम् । २ इवर्ध ! संबोधनैकवचनम् । ३ मा 'माम्' इत्यर्थे द्वितीयैकवचनम् । ४ अनस्+तात्. = अनस्तात् संबोधनैकवचनम् । 'अनस्' इत्यनेन 'अन्' पदम् । 'तात्' इत्यनेन 'त' ‘पदम्' द्वयोः संयोगे 'अन्त' इति जातम् । ५ त+अम्लायम्=ताम्लायम् द्वितीयैकवचनम् 'मा' इत्यस्य विशेषणम् । लस्य रत्वे ताम्रायम् । ६ नखम् 'मा' इत्यस्य विशेषणम् द्वितीयकवचनम् । ७ अं+डली: संबोधनम् अनेन 'अं' इति वर्णः सूच्यते, पूर्वोक्ते 'अन्+त' पदे 'अं' इति मध्ये प्रविष्टे 'अनन्त' इति जातम् अनन्तनाथजिनस्य सूचकम् । ८ 'प्रति'. इति 'प्रतिसूचकम् अव्ययम् । ९ ऊह+शर+भ+प्लोषे ऊहशरभप्लोषे रस्य लत्वे 'प्रति' पदेन संयोगे प्रत्यूहशलभप्लोषे सप्तम्येकवचनम् । १० दी+इप्रदीपो-दीप्रदीपो-दीप्रदीपाम् । 'मा' इत्यस्य विशेषणम् अत्र 'प्रदीपो' इति ओकारान्तः शब्दः तस्य द्वितीयैकवचनम् । १२ कु + रा + अयते कुरायते ! संबोधनैकवचनम् । ] व्याख्या-'अ' 'न्' इत्यक्षरद्वयम् असति आदत्ते क्विपि अनस् तस्य सं० । तथा अं इति यो डो ध्वनिः तेन लीयते सम्बद्धीभवतीति विपि अंडलीः, तस्य सं० एतावता 'अन' इति सिद्धम् । तथा तकारम् अतति गच्छति क्विपि तात् तस्य सं० । एतावता अनन्तः श्रीअनन्तजित् , तस्य सं० हे अनन्तः ! हे इवर्ध ! Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148