Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 58
________________ [सिद्धये वर्धमा नः स्तात् ताम्रायन्नखमण्डली । *प्रत्यूहशलभप्लोषे दीप्रदीप कुरायते ॥२८॥ [१ सिद्धये चतुर्थ्या एकवचनम् । 'भवतु' इति क्रिया अध्याहार्या । २ व+ऋद्ध+माःवर्धमाः प्रथमैकवचनम् । अनेन 'व' शब्दः संजातः। ३ नः इति षष्ठी।४ स+ता+अत्-स्तात् प्रथमाया एकवचनम्। अनेन 'स' शब्दः । पूर्वेण 'व'शब्देन 'स'शब्दस्य संयोगे 'वस' इति श्रीवासुपूज्यजिननामसूचक 'वस' इति पदम् । ५ ताम्र+आयत्+नख+मञ्च -ताम्रायन्नखमन् । प्रथमैकवचनम् 'ड' योगे 'न्' इत्यस्य णत्वम् । ६ ड+री+डरीः प्रथमा । अत्र रस्य लध्वनौ; विसर्गस्य अगणने डली इति । ततः ताम्रायन्नखमन्+डली-ताम्रायन्नखमण्डली इति । ७ प्रति+अव-प्रत्यूः +हस+लभा (ततः बहुबीहिसमासे) प्रत्यूहसलभः । अत्र विसर्गयोः अनुच्चारणे 'स'स्य 'श'ध्वनौ प्रत्यूहशलभ इति प्रथमान्तम् । ८ प्लोषे इति सप्तम्यन्तम् । ९ दीप्रदीप्+आम्दीप्रदीपाम् षष्ठीबहुवचनम् नः इत्यस्य विशेषणम्। १० कु+र-आयति-कुरायति । तस्य षष्ठयैकवचनम् कुरायतेः । अत्र विसर्गस्य अध्वनिः ततः कुरायते ।] व्याख्या-वकारेण ऋद्धो मा वाचको वर्धमाः नः अस्माकं सिद्धये भवतु इति क्रियाशेषः । किम्भूतो वर्धमाः ? 'स्' कारं तायते पालयतीति स्ता ईदृशः अत् अकारो यस्मिन् स स्तात् । एतावता 'वेस्' इति सिद्धम् । वसः बासुपूज्य इत्यर्थः । कथ. मित्याह-'वसुपूज्य' शब्दात् “ते लुग्वा" [३ । २। १०८] इत्युत्तरपदलोपात् वसुर्वसुपूज्यनृपस्तं स्वपितृतया आरव्यातीति णिजि 'त्रन्त्यस्वरादेः" [७ । ४ । ४३ ] लोपे, अचि वसः श्रीवासुपूज्य इत्यर्थः । अथ विशेषणयोजनम्-'वर्धमाः' किं०ताम्रायन्नखम् । रक्तवर्णत्वात् तानं धातुविशेषः तं 'यत निकार.'. [१७३८] इति चौरादिक यति'धातोनिकारार्थत्वात् , णिचोऽनित्यत्वादभावे आपत् आयतति निराकरोंति क्विपि ताम्रायतो ये नखास्तान् ‘मचुङ् धारणोच्छ्राय०' [६५६] इत्यतो मञ्चते धारयति विकपि सौ “पदस्य" [२।१ । ८९] इति 'च'लोपे ताम्रायन्नखमन् । पुनः कि० कु कुत्सितो यो “रो ध्वनौ तीक्ष्णे वैश्वानरे · कामे" [ ] इत्येकाक्षरोक्तेः रः कामस्तस्य आयतिौरवं तस्याः प्लोषे विनाशे डः शिवः तस्य री भ्रम." [ ] इत्येकाक्षरवचनात् री भ्रमस्तां ईयते गच्छति क्विपि डली: र-लयोरैक्याल्लत्वम्, कामप्रभावस्य प्लोषे शिवभ्रान्ति गच्छन्नित्यर्थः । पुनः किं. १ 'वस' इति अदन्तम् उचितम् । २ 'ताम्रायन्नखमन्' इति शुद्धम् । ३ पुस्तिकायाम् 'ताम्रायता' इति लिखितम् परन्तु 'ताम्रायत्' शब्दस्य बहुवचनम् ताम्रायतः इत्येव समुचितम् । 'ताम्रायता' इति तु तृतीयान्तं कथं 'नखाः' इत्यस्य विशेषणम् स्यात् ? । ४ "री भ्रान्तौ"-एकाक्षर० सुधा० लो० ३८ । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148