Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 56
________________ २७ तात् । पुनः किं०? म्लायन्ती मुक्त्यनाप्त्या खिद्यमाना “नखः करज-षण्ढयोः" [हैम० अनेकार्थ. द्विस्वर० श्लो० ३८] इति अनेकार्थवचनात् नखानां तृतीयप्रकृतीनां मण्डली श्रेणिर्यस्याः सा म्लायन्नखमण्डली समासान्तविधेरनित्यत्वात् कजभावः ईदृशी ईः शासनरूपा लक्ष्मीर्यस्य स म्लायन्नखमण्डलीः । नपुंसकानां हि जिनमते मुक्ति!क्ता । त्वं किं. भा भ्रमरास्तद्वद् भान्ति 'गौचर्यामिति "क्वचित्" [५ । १। १७१] डे भभाः यतिनस्तानाख्यातीति णिजि क्विपि सौ “धुटस्तृतीयः” [ २ । १ । ७६ ] इति विरामविवक्षितत्वात् पत्वे भप् तत्त्वातत्त्वकथनाय साधूनाम् आख्याता । अथवा भः शुक्रः कौशलेन तद्वद् भान्ति डे भभा विद्वांस : तानात्यान्तीति पूर्ववदेव । पुनः किं. ल इव इन्द्र इव लः । पुनः किं० ईम् लक्ष्मी प्रददाति क्विपि “र्व्यञ्जने०" [४ । ३ । ९७ ] इति परमते ईकारे ईप्रदीः । तथा इम् कामं 'पै शोषणे' (४७) इति पायति शोषयति डे इपः । तथा न कुत्सितं रासते शब्दायते क्विपि अकुराः पश्चाद् विशेषणसमासे ईप्रदीपाकुराः । यते किं० सिद्धा सम्पन्ना या लक्ष्मीर्यस्मात् तत् सिद्धयं तस्मिन् सिद्धये ॥२६॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्युहशलभप्लोषे दीप्रदीपाङ्करायते ॥२७॥ [सिद्धयेवर्धमा नः स्तात् ताम्रा यन्नख ! मण्डली। 'प्रत्यूह ! शेल ! मैंः "प्लोषे दीप्रदीपाङ्कुरायते॥२७॥] - [१ सिद्धः प्रसिद्धः प्रथमैकवचनम् । २ एवर्धमाः ! संबोधनैकवचनम् । अनेन पदेन 'रे' इति निष्पन्नम् । सिद्धः+एवर्धमाः सिद्धयेवर्धमाः। अत्र “रोर्यः" [१।३।२६] इति सूत्रेण यत्वे कृते सिद्धयेवर्धमाः इति जायते । ग्रन्थकारेण तु नैषा प्रक्रिया प्रदर्शिता । ३ नः षष्ठी । ४ स्तात् क्रियापदम् । ५ तम्+र्-तम्र-ताम्र+अस्-ताम्राः प्रथमैकवचनम् । ६ यन्नख । यत्। नख-यन्नख संबोधनैकवचनम् । अनेन पदेन 'यत्' इति निष्पद्यते । ७ मण्डली-भामण्डलवान् प्रथमा । ८ प्रति+3+ह-प्रत्यूह ! संबोधनैकवचनम् । ग्रन्थकारेण 'प्रत्यूह'पदसाधनाय 'प्रति+ऊहन+ह' इति प्रक्रिया प्रदर्शिता परन्तु तया तु 'प्रत्यूहनह' इति सेत्स्यति, 'प्रत्यूह' ति अतः 'प्रत्यूह'पदसाधनाय इयम् अन्या प्रक्रिया समुचिता-प्रति+ऊं+ह-प्रत्यूह, अत्र 'पदं रोषवाचकम ततः शिववत् कामं प्रति रोषकारी एवम् अर्थसौकर्यमपि भवति । "ऊं प्रश्ने रोषवाचि च" [हैम० अने. अव्यय० श्लो. १७७३] चित्रकाव्ये 'ॐ' इत्यस्य 'ऊ' उच्चारणम् । ९ शू+अल+अ=शल ! संबोधनैकवचनम् अनेन पदेन 'शू' इति उपपन्नम् । एवम् १ अत्र 'गोचर्याम्' इति उचितम् । २ अत्र 'आख्याति' इति उचितम् । ३ "संस्था' शब्दात् अन्यत्र लुप्तव्यञ्जनेऽपि इच्छन्ति एके । तथा च जयकुमारः 'पां पाने' इत्यस्य क्विपि पीः इत्याह"-अस्य सूत्रस्य सिद्धहेमलघुन्यासे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148