Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 54
________________ सित् ज्ञाता । न स्तात् ? अपि तु स्तादेव । अयमर्थः तवोपदेशादिना मुक्तमांसादिभक्षणो व्याधोऽपि तत्त्वज्ञाता स्तादेव ॥२४॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥२५॥ ['सिद्धयेधमाऽनस्तात् ! ताम्रायन्नख ! मण्डली। 'प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुराऽऽयते ॥२५॥] [१ हे सिद्धय ! सिद्ध+या बहुवीहिसमासे सिद्धय ! संबोधनैकवचनम् । २ इवर्धम ! सिद्धय+ इवर्धम सिद्धयेवर्धम ! संबोधनैकवचनम् । इ+व्+अर्+ध्+अम=इवर्धम ! अनेन पदेन विधि' शब्दः निष्पन्न: सुविधिजिननामद्योतकः । ३ अनस्तात् संबोधनेकवचनम् । अ+नस+ता+अत्-अनस्तात अनस्ता अकौटिल्यम्-ऋजुता-अकपटभावः-सरलता इति यावत् । ४ ताम्+र+शतृ ताम्रायत् +नख ताम्रायन्नख । ५ मण्डली प्रथमैकवचनम्। ६ प्र+तय्+ति-प्रत्ति+अव्-ऊ-प्रत्त्यू+ह-प्रत्त्यूहशलभप्लोषे सप्तम्या एकवचनम् । ७ दीप्रदीपाकुर इति क्रियापदम् द्वितीयपुरषैकवचनम् पञ्चम्या 'हि'प्रत्यये । एतत् क्रियापदम् हैम० ३।४।२५। इति सूत्रतः आचारार्थद्योतक क्विप'प्रत्ययान्तम् । ८ 'इ'शब्देन 'कामदेव'वाचकेन इदमर्थद्योतकतद्धितप्रत्यये आय+ति आयति-संबोधनैकवचने आयते ! ] व्याख्या-न विद्यते र यस्मिन् स अर् , स चासौ ध् च अर्-ध् । व् च अर्-ध् च वक़, इकारेण युक्तौ च तौ वर्धा च इवौं । 'अम् शब्द-भक्त्योः ' [३९१] इति अमति वक्ति अचि अमो वाचकः, इवौं अमो वाचको यस्य स इवधम एतावता 'विधि' इति सिद्धम् । "ते लुग् वा” [३ । २ । १०८] इति पूर्वपदलोपाद् उपसर्गस्याऽतन्त्रत्वाद् वा तस्य सम्बो० इवर्धम ! हे सुविधे ! हे सिद्धय ! 'सि० शाश्वती मुक्तिरूपा या लक्ष्मीर्यस्य तस्य सम्बो० । तथा हे अनस्तात् ! 'णसि कौटिल्ये' [८५१] क्विपि नस्, भावे तलि नस्ता कौटिल्यं नञ्योगे अनस्ता अकौटिल्यं तेन 'अत् सातत्यगमने' [२७९] अतति विहरति जगति क्विपि अनस्तात् तस्य संबो० । हे ताम्रायन्नख ! तानं रक्तं करोति णिजि क्विपि “पदस्य" [२ । १ । ८९] इति 'र'लोपे ताम् अत एव रैः सुवर्णं तद्वदाचरतीति क्विपि शतरि रायन् नखो यस्य स ताम्रायन्नखस्तस्य संबो० । हे आयते ! इ: कामस्तस्येयं “तस्येदम्" [६ । ३ । १६०] अणि आयी तिर्गमनं यस्मात् स आयतिस्तस्य संबो० । त्वं प्रपूर्वात् 'तयि णयि रक्षणे च' [७९७] इति चकाराकृष्टगत्यर्थात् तयतेः क्तौ “य्वोः प्वय०" [४ । ४ । १२१] इति यलोपे “अतः" १- 'सिद्धा' इत्यस्य 'सि.' इति संक्षिप्तम् तेन 'सि सिद्धा शाश्वती' इत्यादि योज्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148