Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 53
________________ [१ सित् ज्ञाता-प्रथमैकवचनम् । २ हयेब् ! संबोधनैकवचनम् । ह+अय+ईप्=हयेब् अनेन प्रकारेण 'हि'शब्दो निष्पन्नः । ३ अर्धमाः । अर्ध+माः अर्धमाः । अनेन प्रकारेण 'मा' शब्दः साधितः । मा+हि- 'माहि' इति जातम् । महस्य अपत्यं माहिः । हये+अर्धमाः हयेबर्धमाः । सित+हयेबर्धमाः सिद्धयेवर्धमाः+नः सिद्धयेबर्धमानः । 'ब'कारस्य 'व'ध्वनौ सिद्धयेवधमानः । ४ अत्र 'नः' इत्यस्य विसर्गों न उच्चारणीयः ततः 'न' इति निषेधवाचकम् बोध्यम् । तस्य 'स्तात्' क्रियया संबन्धे काक्वा प्रश्नविवक्षायाम् न स्तात् अपि तु 'स्तात् एव' इति अर्थसंगतिः । ५ ताम्रायते इति ताम्राः । ६ अन्नख-अन्न+खाद्-अन्नख+मण्डली-अन्नखमण्डली । ताम्रास्+अन्नख० अत्र सः रुत्वे तस्य च पूर्वोक्तप्रकारेण 'य'त्वे ताम्रा यन्नख० । ७ प्रत्यूह-शर ! रस्य लध्वनी प्रत्यूहशल । ८ भप्लोषे--भ+प्र+उ-भप्रो । 'र'स्य लध्वनौ भप्लो इति ओकारान्तम् । अषे न षः अषः तस्मिन् अषे सप्तम्यन्तम् भप्लो+अषे-भप्लोऽषेभप्लोषे इति, अत्र 'भप्लो' इति 'अषे' इत्यस्य विशेषणम् । ९ भप्लोषे दीप्रदीपाङ्कुराय ! । १० तव ।] व्याख्या-अर्धं मा इति माकारो यस्य स अर्धमाः । एतावता मा इति सिद्धम् । तथा हकारम् अयते अचि हयो य इः इकारस्तं ईप्सतीति क्विपि सौ “पदस्य" [२।१। ८९] इति 'स'लोपे “धुटस्तृतीयः" [२ । १ । ७६] इति बत्वे बवयोरैक्यात् क्त्वे हे हयेव् !। एतावता 'माहि' इति सिद्धम् । “ते लुग् वा" [३ । २ । १०८] इत्युत्तरपदलोपात् महो महसेनभूपः तस्यापत्यं “अत इञ्" [६ । १। ३१] इति इञि वृद्धौ माहिस्तस्य सम्बो० हे माहे ! चन्द्रप्रभ ! । हे प्रत्यूहशर ! प्रत्यूहा विघ्नाः तेषां विषये शर इव बाण इव प्रत्यूहशरस्तस्य सम्बो० । तथा हे भप्लोषे दीप्रदीपाङ्कुराय ! 'भस् भर्त्सन-दीप्त्योः ' माधवीयधातु० तृतीयगण धा०१८]इति परपठितधातोः क्विपि भः सन्तापकः प्रकृष्ट उः शिवो यस्य स भप्लोः श्लेषाद् विसर्गलोपः रलोरक्याल्लत्वम् । ईदृशः "षः श्रेष्ठे" [ ] इति एकाक्षरवचनात् अषोऽश्रेष्ठो यः कामः स एव 'अग्नौ वमिर्दीप्रः" हैमशेषनाममालालो०१७११]इति शेषवचनाद् दीप्रोऽग्निः तस्य दीपनं घञि दीपः कान्तिस्तस्मिन् । “अङ्कुरं सलिले” [ ] इत्यनेकार्थवचनाद् अङ्कुरं जलं तद्वदाचरतीति क्यङि अचि भप्लोषेदीप्रदीपाङ्कुरायस्तस्य सम्बो० । हे ताम्रा ! ताम्रः धातुविशेषस्तद्वदाचरतीति क्यङि क्विपि “य्वोः प्वय्०" [४ । ४ । १२१] इति यस्य लोपे ताम्राः पीत-रक्तयोरैक्यात् सुवर्णवर्ण इत्यर्थः । अन्नं धान्यं तदेव खादति भक्षयति "कचित्" [५ । १ । १७१] डे अन्नखो धान्यभोक्ता न तु मांसादिभोक्ता यः । “समूहे कुष्ठभेदे हि शुनि मण्डले [ ] इत्यनेकार्थवचनात् मण्डलाः श्वानो विद्यन्ते यस्य स मण्डली व्याधः “अतोऽनेकस्वराद्" [७ । २ । ६] इति इन , अन्नखश्चासौ मण्डली च अन्नखमण्डली ते तव 'षिधू गत्याम्' [३२०] सेधति इति किपि १--"षः कीर्तितो बुधैः श्रेष्ठे"--एकाक्षरकोषे श्लो० ३४२ मण्डलो बिम्ब-देशयोः ॥१२७४॥ भुजङ्गभेदे परिधी शुनि द्वादशराजके । संघाते कुष्ठभेदे च ॥१२७५॥ हैम-अनेकार्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148