Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 51
________________ २२ इवर्धः । पश्चाद् विशेषणसमासे धयेवों मा वाचको यस्य स धयेवर्धमाः । एतावता धारिः-धरस्य राज्ञोऽपत्यं पद्मप्रभजिनः । 'षिधू गत्याम्' [३२०] सेधति जानाति तत्त्वं क्विपि सित् त्रिजगत्ज्ञाता तत्त्वातत्त्वविद् अस्तीति क्रियाविशेषः । किं० 'णसि कौटिल्ये [८५१] नसते क्विपि नः तस्य भावे तलि नस्ता कौटिल्यं माया इति यावत् , तां अत्ति विनाशयति क्विपि नस्तात् कौटिल्यमुक्त इत्यर्थः । पुनः किं० ? ता चतुस्त्रिशदतिशयलक्ष्मीः तया आम्लानं "उपसर्गादातः" [५ । ३ ।११०] इति अप्रत्यये आम्लां म्लानिम् अस्यति क्विपि ताम्लाः । उत्तरार्धे यच्छब्दः पूर्वार्धे तच्छशब्दं द्योतयति । स कः ? इत्याह-यन्नखमण्डली यस्य नखश्रेणी प्रपूर्वात् 'दयि दान-गति-हिंसा०' [७९९] इति रक्षणार्थाद् दयतेः क्तौ “य्वोः प्वय ०"[४ । ४ । १२१] इति यलोपे परमते "अतः" [४ । ३ । ८२] इति अलोपे “अघोषे प्रथमः ०" [१ । ३। ५०] इति तत्त्वे प्रत्तिर्दया तस्याः करोत्यर्थाद् अवेः क्विपि ऊटि ऊः करणं ताम् । 'ओहांक त्यागे' [११३१] इति जहाति "आतो डः." [५ । १ । ७६] इति डे प्रत्यूहो निर्दयः स एव शलभः तस्य प्रकर्षेण 'उष रुजायाम्' [५०४] इति उषणं घञि प्रोषः पीडा दहनमित्यर्थः तस्मिन् दीप्रा दीप्यमाना या दीपनं घञि दीपाः कान्तिचाकचक्यानि तैः अकुः अकुत्सितो यः "रैस्तीक्ष्णे वैश्वानरे कामे" | ] इत्येकाक्षरवचनात् रः अग्निस्तद्वदाचरति "क्य" [३ । ४ । २६] इति क्यङि दीर्घश्चेति दीप्रदीपाकुरायते श्लेषादनुस्वारलोपः ॥२२॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङरायते ॥२३॥ [सिद्धयेवर्धमा! नः स्तात्ताम्रायन् ! नखमण्डली!। प्रत्यूहशलभ ! प्लोषेदीप्रदीपाऽकुरा यते" ॥२३॥] [१ स्+इद्ध+या +इ=सिद्धये इति एकारान्तं पदम् अर्थात् 'स'युक्तः । २ व++ऋद्ध+मा-वर्धमाः इति आकारान्तं पदम् अर्थात् 'व'युक्तः । आभ्यां पदाभ्याम् 'स्व' इति जातम् । सिद्धयेवर्धमाः! इति संबोधनैकवचनम् । ३ नः षष्ठी । ४ स्त+आत्त+अ+म्ला+इ+अङग-स्तात्ताऽम्लायन् ! संबोधनैकवचनम्। 'इ+अङग्' इत्यस्य संधौ ‘यङग्' ततः यन् । 'म्ला' इत्यस्य 'म्रा' उन अनेन पदेन 'स्ति' इति जातम् ततः पूर्वेण 'स्व'पदेन 'स्ति'पदस्य संयोजने 'स्वस्ति' इति जातम्। ५ अ+ख+मण्ड+ली-अखमण्डलीः ! संबोधनैकवचनम् । काव्ये विसर्गविहीनम् उच्चारणम् । ० यन्+अख०' इत्यस्य संधौ ‘यन्नख' इति। ६ प्र+त्ति-प्रत्ति+ऊह+शर+भा+प्रत्त्यूहशरभ ! संबोधनैकवचनम् । 'र'स्य 'ल'उच्चारणे ० शलभ इति । ७ प्र+उषा+इ=प्रोषे इति 'कामदेव' सूचकम् एकारान्तं पदम् । प्रोषेदीप्रदीप ! इति संबोधनैकवचनम् । ८ अ+। उर ! =अकुर ! अर्थात् १ दकारस्य तकारे जाते । २ "र: कामे तीक्ष्णे वैश्वानरे"-एकाक्षर० सुधा०लो०३६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148