Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 55
________________ [४ । ३ । ८२] इत्यल्लोपे, गत्यर्थानां ज्ञानार्थत्वेन प्रेत्तिः प्रतिपत्तिर्ज्ञानं तत्त्वातत्त्वविचारस्ताम् । 'अव रक्षण०' [४८९] इति हिंसाऽर्थादवतेः अवति हिनस्ति कर्तरि विपि "मव्यवि०" [४ । १ । १०९] इत्युपान्त्येनोटि ऊहिंसको यः-"हो हस्ते दारुणि शूलिनि" [ ] इति एकाक्षरवचनात्-हः शिवः तस्य शासनमपि उपचारात् हः स एव शलभः पतङ्गस्तस्य प्लोषे विनाशे दीपो दीपाङ्करः प्रदीपः तद्वदाचर क्विपि हौ दीप्रदीपाङ्कुर । त्वं किं० मण्डलं बिम्बं विद्यते यस्य स "अतोऽनेकस्वरात् " [७ । २ । ६ ] इनि मण्डली सूर्यः मण्डलीव मण्डली जगत्प्रकाशकत्वात् ॥२५॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥२६॥ ['सिद्धयेऽवर्धमानस्तात्ता 'म्रायन्नखमण्डलीः। 'प्रत्गृहशल !"भप्लोऽषेदीप्रदीपांकुरा यते ॥२६॥] [१ सिद्ध+या सिद्धय, ततः सप्तम्या एकवचने सिद्धये । २ अ+वर्धमानः अवर्धमानः। ३ 'त' शब्दस्य पञ्चम्या एकवचनम्। ४ 'ताय' धातोः--क्विबन्तं कृदन्तं नाम--ता प्रथमैकवचनम् । ५ म्लायत्+नखमण्डली+ई:--म्लायन्नखमण्डलीः । लस्य 'र' ध्वनौ विसर्गस्यागणने च म्रायन्नखमण्डली ता+म्रायन्न ताम्रायन्न । 'ता' इति भिन्नं पदम् । ६ प्रत्-ई+ऊह+श-प्रत्यूहश, अनेन शीतल म् 'शीत्' इति पदं निष्पन्नम् । प्रत्यह+अल-प्रत्यूहशल, अनेन संपूर्ण 'शीतल इति नाम संजातम् । प्रत्यूहशल ! संबोधनैकवचनम् । ७ भ+भाभप्-प्रथमैकवचनम् । ८ लः प्रथमैकवचनम् । ९ 'अषेत्' इति क्रियापदम् । १० ई+प्र+दी+इ+4+अ+कु+रास-ईप्रदीपाकुराः प्रथमैकवचनम् । सानुस्वारस्य उच्चारणे प्रदीपांकुराः प्रत्यूहशल+भप+लप्रत्यूहशलभल इति अत्र त्रीणि पदानि, तत्र उपान्त्यम् अन्त्यं च 'भप्' इति 'ल' इति च प्रथमान्तम् । प्रत्यूहशल+भप+ ल:+अषेत् एतेषां संयोगे प्रत्यूहशलभप्लोषे इति ज्ञेयम् । ततः 'अषेत्' इत्यस्य अन्त्य 'त्' इत्यस्य 'ईप्रदीप०' इति पदेन संयुक्तीकरणे प्रत्यूहशलभप्लः+अषेत्+ईप्रदीप-प्रत्यूहशलभप्लोषेदीप्रदीप० ततः 'अकुराः' इत्यनेन संयोगे समग्रं जायते। ११ यते व्रते ] व्याख्या-प्रगतः तु तकारोऽग्रे यस्य स प्रत् ईदृशश्चासौ ईकारश्च प्रतीः संज्ञाशब्दत्वात् तृतीयो (दकारः) न भवति । एवं सर्वत्र । तस्य ऊहो स्थापनविचारोडग्रे यस्य स प्रत्यूहः स चासौ श् च प्रत्यूहर-एतावता 'शीत्' इति सिद्धम् । ईदृशं 'अल' इत्यक्षरद्वयं यस्य स प्रत्यूहशलः-एतावता'शीतलः' इति सिद्धम् तस्य सं० हे प्रत्यूहशल ! शीतल ! भवान् यते व्रते अषेद् गच्छति व्रतमङ्गीकरोतीत्यर्थः । त्वं पुनः किं० अवर्धः अवर्धिष्णुः मानः अहङ्कारो यस्मात् स अवर्धमानः । पुनः किं० 'तायुङ् सन्तान-पालनयोः' [८०६] इति, अतः क्विपि “य्वोः प्वय्०” [४ । ४ । १२१] इति 'य'लोपे ता रक्षकः कस्मात् “तः तस्करे क्रोडे' [ ]इति तः तस्करः तस्मात् १ ग्रन्थकारेण अयं शब्दो न दर्शितः । २ "हः शूलिनि करे वीरे” इत्यादि-एकाक्षर सुधा. लो० ४५ । ३ क्रियापदम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148