Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 52
________________ २३ 'क'वर्णयुक्त! । पूर्वेण 'स्वस्ति'पदेन 'क'स्य संयोगे 'स्वस्तिक' इति निष्पन्नम् । ९ आ+ यत= आयत-द्वितीयपुरुषैकवचनम् पञ्चम्याम् क्रियापदम् । १० °त +इम् तेम् । 'म्' कारस्य अनुच्चारणे 'ते' इति । ] व्याख्या-स् इद्धां दीप्तां यां लक्ष्मीम् ईयते गच्छति क्विपि सिद्धयेः यो वकारस्तेन ऋद्धो मा वाचको यस्य स सिद्धयेवर्धमाः तस्य सम्बो० हे सिद्धयेवर्धमाः ! एतावता 'स्व' इति सिद्धम् । तथा स्त इति वर्णद्वयेनात्तो गृहीत. सन् न म्लायति क्विपि स्तात्ताम्ला य इकारस्तम् अङ्गति गच्छति किपि सौ "पदस्य" [२ । १ ८९] इति गलोपे हे स्तात्ताम्लायन् ! । अधुना 'स्वस्ति' इति सिद्धम् । तथा अकारेण युक्तं ककारं उरो मुख्यं करोति णिजि ">यन्त्यस्वर." [७। ४ । ४३] इति 'अस्'लोपे उरयतीति अचि अकुरस्तस्य सम्बो० हे अकुर ! । एतावता स्वस्तिक इति सिद्धम् । अथ स्वस्तिकवन्मङ्गलहेतुत्वाद् रक्तवर्णत्वाच्च श्रीसुपाश्वजिनोऽपि स्वस्तिकः । अथवा स्वस्तिकलाञ्छनाद् धार्य धारकयोरभेदोपचारात् अथवा स्वस्तिको विद्यते यस्य लाञ्छने इति “अभ्रादिभ्यः" [७ । २ । ४६] इति 'अ'प्रत्यये स्वस्तिकस्तस्य सम्बो० हे सुपार्श्व ! त्वं नः अस्माकं इं कामं आयत निराकुर्याः । 'आयत' इति आपूर्वात् 'यतण निकारोपस्कारयोः [१७३८] इति धातोर्णिचोऽनित्यत्वात् णिचोऽभावे पञ्चम्या हौ रूपसिद्धिः । उषां बाणपुत्रौं स्वकलत्रं 'ईच् गतौ [१२५२] ईयते कामार्थं गच्छति क्विपि उषेः अनिरुद्धः बल-रूपादिना प्रकृष्टः उषेः प्लोषेः तद्वद् दीयो दीपनं दीपः कान्तिर्यस्य तस्य सम्बो० प्रोषेदीप्रदीप ! । हे प्रत्यूहशलभ ! प्रपूर्वाद् हिंसाऽर्थाद् दयतेः क्तौ “य्वौः प्वय०" [४ । ४ । १२१] इति यस्य लोपे परमते “अतः” [४ । ३ । ८२] इति अल्लोपे “अघोषे प्रथमोऽशिटः" [१ । ३ । ५०] इति तत्त्वे प्रत्तिर्हिसा तस्या ऊहं' विचारं 'शृश् हिंसायाम्' [१५३१] शणाति अचि प्रत्यूहशरा-र-लयोरैक्यात्- प्रत्यूहशला भा कान्तिर्यस्य स तस्य सम्बो० । तथा हे अखमण्डली ! खानि इन्द्रियाणि चक्षुरादीनि तेषां मण्डनं मण्डो अञ्जनादिना आभरणादिना च अलङ्करणं तं लीयसे श्लिष्यसि विपि खमण्डली: पश्चात् नञ्योगे अखमण्डली ॥२३॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥२४॥ ['सिद्धयेवैर्धमा ! ने स्तात् ? ताम्रा ! यन्नख-मण्डली। प्रत्यूहँशल ! भप्लोऽषेदीप्रदीपाङराय ! ते" ॥२४॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148