Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 34
________________ व्याख्या-वर्धमानो जिनः ई लक्ष्मी प्रति स्तात् इति सम्बन्धः । स इति ग्रहणात् यस्य नखाः पादनखारतेष्वतिभक्तत्वान्मण्डल इव इवेवाचरतीति क्यङि, क्विपि, तल्लोपे "अतः” [४।३।८२] इत्यल्लोपे “य्वोः प्वय०" [४।४।१२१] इति यलोपे यन्नखमण्डलाः सप्तम्याम् "लुगातोऽनापः" [२।१।१०७] इत्यालोपे यन्नखमण्डलि यत्पादाम्बुजसेवके इत्यर्थः । सिद्धा सम्पन्ना या लक्ष्मीर्यस्य स सिद्धयः इभ्यजनस्तस्मिन् सिद्धये सति इः काम आकुलायत आकुलोऽभूदित्यर्थः । कोऽर्थः ? यस्य सेवकजने सति कामो भयभ्रान्तोऽभूदित्यर्थः । इः किं० ताम्रवद् 'असी गत्यादानयोश्च' [९३२] इति चानुकृष्टदीप्त्यर्थाद् असति दीप्यते इति क्विपि सो रुत्वे “अवर्ण-भो भगो." [११३।२२] इति रलोपे ताम्रा रक्तवर्णत्वात् । सिद्धये किंभू. 'अव रक्षण' [४८९] इति दीप्त्यर्थात् 'भ्यादिभ्यो वा" [५।३।११५] इति विवपि ऊः कान्तिस्तया कृत्वा "हस्रो दिनम्" [उणादिसू०३८७] इत्युणादिवचनात् हस्रं दिनं करोतीति णिजि, विवपि “न सन्धि०" [७।४।१११] इति स्थानिवद्भावाभावात् "संयोगस्यादौ स्कोलक" [२।१।८८] इति सलोपाभावे "पदस्य" [२।१।८९] इति रलोपे, सस्य रुत्वे विसर्गत्वे च ऊहः सूर्यः तथा शरं जलं र-लयोरैक्यात् शलाद् भवतीति क्वचिड्ढे शलभश्चन्द्रः तौ प्रकर्षण ऊषति कर्मणोऽ" [५।१।७२] इत्यणि ऊषः [प्रोषः]-शलभप्लोषः तस्मिन् ऊहःशलभ प्लोषे श्लेषतो विसर्गाभावः रो लत्वं च । कया ? दीप्रा या-दीपनम्-दीप् कान्तिस्तया ॥४॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥५॥ [सिद्धये वैधमानः स्ताऽत्ताऽऽम्लाः ! यन् न खमण्डलीः । 'प्रत्यूह शेलभप्लोषे "दीपदीपां कुरायते ॥५॥] [१ वर्धमान् इत्यस्य संबोधनबहुवचनम् । २ 'स्त' इति द्वितीयपुरुषबहुवचनं पञ्चम्याः क्रियापदम् । ३ अत्त इत्यपि 'स्त'वत् क्रियापदम् 'अद्'धातोः। ४ आ+आम्लाः = आम्लाः संबोधनबहुवचनं 'वर्धमानः' इत्यस्य विशेषणम् । ५ 'यत्' इत्यव्ययम् 'यस्मात्'अर्थे । ६ 'न' इति निषेधवाचि अव्ययम् । ७ 'खमण्डलीः' मदीवत् द्वितीयाबहुबचनम् 'अत्त' इत्यस्य कर्मकारकरूपम् । ८ 'प्रत्यूह' 'वह'धातोः प्रतिपूर्वस्य परोक्षायाः द्वितीयपुरुषबहुवचनम् । ९ शट्+अ+भ = शडभ इति । १० द्वितीयाया एकवचनम् । 'प्रत्यूह' इत्यस्य कर्मपदम् । ११ कुः आयतेः इति विभागः।] व्याख्या-आ लक्ष्मीस्तया न म्लायन्तीति आम्ला इभ्यास्तेषां सम्बोधनम् हे आम्लाः इभ्याः ! यूयं सिद्धये शिवाय वर्धमानो वर्धमानं जिनम् आख्यान्तीति णिजिः, क्विपि वर्धमानिति नन्तप्रकृतेर्जसि वर्धमानः श्रीवीरजिनवक्तारः स्तोतारः Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148