Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 42
________________ '१३ म्लायति अतत्परीभवति क्विपि मानस्तात्ताम्लाः । पुनः किं ? ई श्रीः अन्न धान्यम् ताभ्यां खमिव खं स्वर्गतुल्यं मण्डलं देशो विद्यते यस्य स यन्नखमण्डली “अतोऽनेकस्वरात्'[७।२।६]इति इन् । पुनः किं ०? “अङ्कुरं सलिले. रोम्णि"[ ]इत्यनेकार्थवचनाद् अङ्कुरै रोमोद्गमैंः असति शोभते क्विपि अङकुराः सरोमाञ्चः-सहर्ष इत्यर्थः । कस्मिन् ? यते व्रते संयमे इत्यर्थः, आसन्नसिद्धिकत्वाच्चारित्राभिलाषीत्यर्थः । यते किं०? "यस्तु मातरिश्वनि" [ ] इत्येकाक्षरवचनात् य इव यो वातस्तस्मिन् ये वातसमाने इत्यर्थः। कस्मिन् ? प्रत्यूहा विघ्नास्त एव “शरं जले"[ ]इत्यनेकार्थवचनात् र-लयोरैक्यात् शरैर्जलैर्भान्तीति"क्वचित्" [५।१।१७१] डे शलभा मेघास्तेषां प्लोषे विनाशे ॥१३॥ अथ तस्यैव विभोः सवित्री त्रिशलां वर्णयति-- तथासिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोष दीप्रदीपाङ्कुरायते ॥१४॥ [सिद्धये वर्धमानस्ताऽत्ता म्लायं नः खमण्डलीः । प्रत्यहशलभः 'प्लोषेदीप्रदीप कुराऽऽयतेः ॥१४॥ [१ सिद्धये ! श्री त्रिशलामातुः संबोधनैकवचनम् । २ वर्धमानस्ता+अत्ता+म्लायम् । वर्धमानस्ता इति 'वर्धमानस्तन्' शब्दस्य प्रथमैकवचनम् श्रीत्रिशलामातुः विशेषणम् । ३ अत्ता तथैव । ४ म्लायं द्वितीयैकवचनम् 'प्लोष' इति क्रियायाः कर्म। ५ नः षष्ठीबहुवचनम्। ६ ख+मण्ड+ ली-ई:-खमण्डलीःप्रथमैकवचनम् श्रीत्रिशलामातुः विशेषणम् । ७ प्रत्यूहश+लभ प्रत्यूहशलभः श्रीत्रिशलामातुः विशेषणम् षष्ठया एकवचनम्। ८ प्लोष-इत्-ई-प्लोषेदी । अत्र प्लोष इति द्वितीयपुरुषैकवचनम् पञ्चम्याः क्रियापदम् इत् प्रथमैकवचनम् ई विस्तारसूचकम् ९ प्रदीपाम् षष्टीबहुवचनम् । १० कुरा प्रथमैकवचनम् ।] व्याख्या-सिद्धं सिद्धार्थनृपं याति गच्छति भजते इत्यर्थः । 'आतो डः० "[५।१।७६] इति डे सिद्धया त्रिशला तस्याः सम्बो० हे सिद्धये ! त्रिशले ! त्वं नखेत्यत्र चित्रत्वाद् विसर्गलोपे नोऽस्माकं म्लानमिति"भावाकों: घञ्" [५।३।१८] इति घञि म्लायो म्लानिस्तं प्लोष भस्मीकुरु इत्यर्थः । त्वं किं ? वर्धमानजिनं चरमतीर्थकरं स्वपुत्रतया स्तनति वक्ति क्विपि सौ “नि दीर्ध:"[१।४।८५]इति दीर्घ वर्धमानस्ता । त्वं किम् ? अत्ता इव अत्ता मातृसदृशी अर्थाज्जगताम्- जगद्बन्धोः श्रीवीरस्य माता-जगन्मातैव । 'अत्ता' शब्दो मातृपर्यायो लक्षणबृहवृत्तौ, “नित्यदिद-द्विस्वरा०"[११४।४३] इति अम्बार्थोदाहरणे दर्शितत्वात् । पुनः किं ? खं मुखम् तेन यो १. “यस्तु वाते यमेऽपि च" एकाक्षर सुधा० श्लोक ३५ । २ सूत्रं तु "भावाऽकोंः " इत्येव, परंतु लिखितपुस्तिकायां यथा लिखितं तथा अत्र स्वीकृतम् । ३ लक्षणबृहद्वृत्तौ-सूत्रबृहवृत्तौ । ४ इति सूत्रे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148