Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 45
________________ १६ किम्भूतः ? ताम्रस्योपलक्षणत्वात् सुवर्णाद्यपि ताम्रं तेन 'असी गत्यादानयोश्च' [४३२] इति 'असति'धातोर्दीप्यर्थाद् असति शोभते क्विपि ताम्राः । पुनः किम्भू० ? अन्नं धान्यं तेन खं मुखं 'गुणशब्दा गुणिन्यपि वर्तन्ते' इति मुखचन्मण्डलं देशो विद्यते यस्य स “अतोऽनेकस्वरात्" [ ७|२|६ ] इति इनि अन्नखमण्डली । पुनः किं० ? प्रतिपूर्वादवतेहिंसाऽर्थात् कर्तरि क्विपि वस्य ऊटि प्रत्यूः पापी तमेव घ्नन्ति क्विपि प्रत्यूहनो र लयोरैक्यात् शला बाणा यस्य स प्रे०लः । तथा भैर्नक्षत्रैरुपलक्षितः प्रकृष्टो य उषायां रात्रौ एति गच्छति क्विपि " ह्रस्वस्य ० " [४|४|११३] इति तागमे उषेत् चन्द्रस्तद्वदाह्लादका ईं लक्ष्मीं प्रददति “उपसर्गादातो ड: ०" [५/१/५६ ] इति है ईप्रदा दातारो विद्यन्ते यस्य स " अतोऽनेक ०" [ ७२६] इति इनि भप्लोषे दीप्रदी पश्चाद् विशेषणसमासे प्रत्यूहशलभप्लोषेदीप्रदी किं० 'पस्तु पातरि पवने' इत्येकाक्षर - वचनात् पो वायुस्तेन युतं यदङ्कुरं जलं तद्वदसति भाति क्विपि पाङ्कुराः यथा वातलहरीमिश्रं जलं सुखकृत् तथाऽयमपि प्रणतनराणां सुखकृदित्यर्थः । किं० यता वशीकृताई पृथ्वी येन स यते अनित्यत्वात् कजभावे " गोश्चान्ते ०" [२।४।९६ ] इति हस्वे एकारः ॥ १६॥ अथ सकलमङ्गलावलीवल्लिपल्लवननवजलधरायमाणान् चतुर्विंशतिजिनान् स्वस्वनामाकर्षणपूर्वं वर्णयति - तथाहि- सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते ॥ १७॥ [सिद्धये वैधमा नैः स्तात् ताम्रायन्नैखमण्डली | प्रेत्यूहशल ! भैप्लोषेदी! दीप कुरायतेः " ॥१७] [१ वा+ऋधमा नः = वर्धमा नः । अत्र 'वा' निश्चयसूचकम् अव्ययम् । ऋधमाः' इति प्रथमैकवचनम् । ऋकारयुक्तः इत्यर्थः । २ 'नः' इति षष्ठीबहुवचनम् । ३ ता + अम्लायन् ताऽम्लायन् = ताम्रायन् प्रथमैकवचनम् ४ अ+ख+मण्डली=अखमण्डली इति प्रथमैकवचनम् । अत्र 'अ' निषेधसूचकः । यन्+अख॰ अत्र “ह्रस्वात् ङ णनो द्वे” [१।३।२७। ] इति द्वित्वे यन्नख० इति । ५ प्रत्यूह+श= प्रत्यूहश + ल= प्रत्यूहशल ! संबोधनैकवचनम् । ६ भ+प्लो+ष+इत्=भप्लोषेत्-भकार - षकारयुक्त इत्यर्थः । 'ऋधमा' पदेन ऋकारयुक्तः अनेन च पदेन भकार - षकारयुक्तः अर्थात् 'ऋषभः ' इत्यर्थः । ७ •षेत्+ईप्र=प्लोषेदीप्र ! 'ई' इति संबोधनैकवचनम् । ८ षष्ठीबहुवचम् । ९ कुः आयतेः इति विभागः | १० षष्ठयन्तम् ] १ 'प्रत्यूहशल:' इति संपूर्ण पदम् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148