Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 44
________________ १५ प्रतिपूर्वाद् अवतेहिंसार्थान् “भ्यादिभ्यो” वा [ ५ | ३ | ११५ ] इति' प्रत्यू: हिंसा तस्या ऊहं वितर्कमपि 'शट रुजा ० ' [१७५]इति रुजार्थात् शटेः शटति रुजति पीडयतीति क्विप “धुटस्तृतीयः” [२|१|७६ ] इति टस्य डत्वे ड-लयोरैक्याल्लत्वे प्रत्यूहशल् । पुनः किं ? आत् विष्णोर्भवती ते "क्वचित्” । [५१|१|७१] डे अभः कामस्तं प्लोषति "कर्मणः ०" [५१/७२ । ] अणि अभप्लोषी कामविनाशिका 'इण्क् गतौ' [अदादिग० १७ ] इति भावे क्विपि इत् ज्ञानं यस्य स अभप्लोषेत् । पुनः किं ? कुं पृथ्वीं राति ददाति कुराः पृथ्वीदाता । केषाम् ? ई लक्ष्मीं प्रदीपयन्ति सप्तक्षेत्री निवेशनेन इति कर्तरि क्विपि ईप्रदीपस्तेषाम् ईप्रदीपा धनिनाम् - श्राद्धानाम् ॥ १५ ॥ अथ तस्यैव विभोर्भ्रातरं नन्दिवर्धनाख्यं भूपं वर्णयतिसिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते ॥ १६ ॥ [ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली | प्रत्यूहशलभैग्लोषेदीमदी कुरा यँतेः ॥ १६ ॥ |] [१ वर्धमा+न=वर्धमानः । एतत् पदम् प्रथमैकवचनम् 'नन्दिवर्धन' नामसूचकम् । २ ताम्र + अस्=ताम्राः+अन्न० अत्र “ रोर्यः” [१।३।२६] इति सूत्रेण रोः यत्वे ताम्रायन्न० इति । अत्र ताम्राः इति प्रथमैकवचनम् । ३ अन्न +ख + मण्डल ० ततः यन्नखमण्डली । प्रथमैकवचनम् । ४ प्रति + ऊ = प्रत्यू +हन्=प्रत्यूहन्+शरः= प्रत्यूहशरः प्रत्यूहशलः प्रथमैकवचनम् । ५ भ + प्र + उषा + इत् =भप्रोषेत्=भप्लोषेत् +ई+प्रदी=भप्लोषेदीप्रदी प्रथमैकवचनम् । ६ प + अङ्कुर+अस्= पाङ्कुराः प्रथमैकवचनम् । “पः पाने पवने पथि " - एकाक्षर० सुधा० श्लो० ३१ । ७ यता+ई=यते=यतेः प्रथमैकवचनम् । ] व्याख्या–‘वर्ध' इत्यक्षरसमुदायम् | 'मीण मतौ' [३७७ चुरादिगतयुजादि ] “गतौ" अपि " अन्ये । णिचि मायति य आश्रयति किपि णिज्लोपे “वोः वय्०" [४|४|१२१] इति यस्य लोपे वर्धमा वर्धशब्दमाश्रितो यो नो नकारो नाम्नि यस्य स वर्धमानः एतावता वर्धनः “ते लुग् वा” [३।२।१०८] इति पूर्वपदलोपाद वर्धनो नन्दिवर्धनो नाम राजा सिद्धये सेवकानां कार्यनिष्पत्तये स्ताद् भवत्विति सम्बन्धः । तथा १ इति' क्विप्' प्रत्यये । २ 'कर्मणः अणू' इति सूत्रेण अभप्लोषः इत्येव स्यात् नहि अभप्लोषी 'अभmोषी' इति पदम् अत्र न साधकम् किन्तु 'अभप्लोष' इत्येव पदं साधकम् तेनैव 'अभप्लोषेत्' इति सिध्यति । ३ गौतमस्य विशेषणत्वेन कामविनाशकः इति उचितम् । ४ “मी गत" [ २८३ चुरादिः ] माधवीयधातुवृत्तौ पृ० ३९५ । ५ एतावता प्रकारेण 'वर्धनपदस्य निष्पत्तिः इति भावः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148