Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 48
________________ किं. वकारेण ऋद्धो 'माङ्क मान-शब्दयोः' [११३७ मिमीते मा वाचको यस्य स वर्धमाः । पुनः किं ० 'उख नख०' [६४] इति नखधातोः अचि नखो गच्छन् म् मकारो यस्य स नखम् एतावता शम्भवः शम्भवाभिध इत्यर्थः । तथा 'अगु गतौ' [८३] 'गत्यर्थाः ज्ञानार्थाः' इति अङ्गति जानाति सवै क्विपि अन् अग्रे डकारे सति "तवर्गस्य श्चवर्ग." [१ । ३ । ६०] इति सूत्रेण णत्वम् । तथा पीत-रक्तयोरैक्यात् कान्त्या तानं धातुविशेषस्तद्वद् आचरति "क्य" [३ । ४ । २६] इति क्यङि क्विपि यो लोपे ताम्राः । पुनः किं० "डः शिवे ध्वनौ" [ ] इत्येकाक्षरवचनान् डं देशनाध्वनिस्तं लीयते क्विपि डलीः । यं त्वां प्रति प्रदीपां कान्तीनां कुः शिवश्रीः आयते आगच्छति, अत्र आपर्वः 'अयि गतौ' [७९०] इति धातुः । किम्भूता ? प्रकर्षण ऊषति रुजति जगत् "नाम्युपान्त्य." [५। १ । ५४] इति के प्लोषो यः इः कामः तं दीयते क्षयं नयति प्लोषेदी: चित्रकाव्यत्वाद् विसर्गभावाभावो न दोषपोषाय । यमित्यस्य पूर्वार्धस्थितस्यापि उत्तरार्धे ग्रहणं श्लेषसंश्लेषतो न दोषाय जायते ॥१९॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥२०॥ [सिद्धये वर्धमा नः स्ताऽऽत्ताऽऽम्राः येन् न खमण्डली। मँत्यूह-शलभ प्लो षेदीपदीपाङ्करांय ! ते ॥२०॥] [१ अत्र 'स्तात्' इति क्रिया अध्याहार्या अर्थात् सिद्धये स्तात् भवतु इति । २ व+ध +मा-वर्धमाः अर्थात् 'वर' इति वर्णद्वयधारकः । ३नः अस्माकम् । ४ स्ता+आत्त+आम्+रा-स्तात्ताम्राः अर्थात् 'साम्' इति पदधारकः । ५ यन् इ+अन् यन्-इवर्णधारकः 'यन्' इति प्रथमैकवचनम् । चतुर्थ-द्वितीय-पञ्चमटिप्पणोक्तप्रकारेण 'सांवरिः' इति पदं निष्पद्यते-संवरस्य अपत्यम् सांवरिः अभिनन्दनः इति। ६ नखमण्डली+इम्-नखमण्डलीम् ततः चित्रकाव्ये नखमण्डली । अत्र 'इम्' इति द्वितीयान्तम् । ७ प्रत्यूह+शल+भस-प्रत्यूह-शलभस-विघ्न-हिंसयोः भर्सनकारी। प्लोषेत् इति क्रियापदम् । ९ ईप्रदीपांकुराय ! संबोधनैकवचनम् । १० तव इति।] व्याख्या-'ईच् गतौ' [१२५२] अयनं ई ज्ञानम् तेन प्रदीपायते प्रदीप इवाचरतीति क्विपि प्रेदीपाः । तथा अनुस्वारशब्दवाच्यं परं ब्रह्म, तस्य कुः स्थानं शिवरूपं यः तस्य । 'रांक दाने' [१०६९] "आदानेऽपि" केचिदिति राति अङ्गीकरोति "तन्व्यधीण" [५। १ । ६४] इति णे "आत ऐ:०"[४ । ३ । ५३] इति वृद्धौ रायः तस्य सम्बो० हे ईप्रदीपांकुराय ! हे जिन ! त्वं नः अस्माकं 'षिधू शास्त्र-माङ्गल्ययोः' [३२१] इति सेधनं सिद्धिर्माङ्गल्यं तस्यै भव इति क्रिया १-'ईप्रदीपाः इति युक्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148