Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 46
________________ १७ [११३७] इति धातोः किं० भं भकारं प्लवते षं षकारं 'इण्क् गतौ' : व्याख्या - ई लक्ष्मीस्तां प्राति पूरयति भक्तानामिति " आतो डोऽह्वा०" [५ | १ | ७६ | इति डे हे ई ! तथा प्रत्यूहाः प्रतिकूलास्तान् श्यति व्यपनयति इति " आतो डो० " [ ५ । १ । ७६ ] इति डे प्रत्यूहश: । "ल इन्द्रे चेलनेऽपि च” [ ] इत्येकाक्षरवचनात् लो गमनं यस्य तस्य सम्बो० हे प्रत्यूहशल ! वा एवार्थे त्वं नः अस्माकं सिद्धये मुक्तये स्ताद् भवतादेवेत्यर्थः । सामान्याभिधाने नामादिविशेषमाह - त्वं किं० ऋकारं दधाति "आतो डो०" [ ५ । १ । ७६ ] इति डे ऋधः । ऋकारयुक्तः 'माङ्क् मान - शब्दयोः ' शब्दार्थात् क्विपि मा वाचको यस्य स ऋधमाः । पुनः गच्छति विचि भलौः गमनस्याद्यग्रयोः सम्भवाद् गताग्रमकारं [१०७५ ] एति गच्छति क्विपि " ह्रस्वस्य ०" [४ । ४ । ११३ ] इति तागमे भप्लोषेत् एतावता ऋषभः ऋषभाभिध इत्यर्थः । पुनः किं० ता लक्ष्मीः अर्थात् केवलज्ञानरूपा तया न म्लायति शतरि ताऽम्लायन् कैवल्यलक्ष्मीनिर्मल इत्यर्थः । पुनः किं० खानि इन्द्रियाणि चक्षुरादीनि तद्ग्राह्याः शब्द-रूपादयोऽपि खानि, तेषां मण्डलं समूहो विद्यते यस्य सखमण्डली, पश्चान्नञ्योगे अखमण्डली जितेन्द्रिय-विषय इत्यर्थः । पुनः किं० कुः स्थानम् कासाम् ? दीपां कान्तीनाम् - "आयतिः प्रभावोत्तर - कालयोः” [ हैम० अ० त्रिस्वर० श्लो ०८४६] इत्यनेकार्थवचनात् - आयतेः प्रभावस्य च ॥ १७॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली | प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते || १८ || [ सिर्द्धयेवर्धमानस् ! तात्ताऽम्लीयं नं खमण्ड ! 'लीः । प्रत्यूहशलभप्लोषे दीमदीपाङ्कुराय ते ॥ १८ ॥ ] [१ सिध् + धय = सिद्धय - 'सिधू' शब्दधारकः । २ उ+अ+र्=वर् । ई+वर्= ईवर् +धम+अस्=ईवर्धमास्+न्+अस् - ईवर्धमानस् ( अत्र 'वर्धमास् + न्' इत्यवस्थायां सः रुत्वे “अवर्णभो० " [१ । ३ । २२] इति सूत्रेण तस्य लोपो विधेयः) ततः सिद्धय + ई + वर्धमानस्= सिद्धयेवर्धमानस् इति संबोधनैकवचनम् सिन्धुरराजित ! इत्यर्थः । ३ ताssत्त 1 संबोधनैकवचनम् । ४ अम्लायम्-ह्यस्तन्याः अस्मत्पुरुषैकवचनं क्रियापदम् । ५ न - निषेधवाची । ६ ख + मण्ड = खमण्ड ! । ७ लीः आश्रयधारकः प्रथमैकवचनम् । ८ ते तुभ्यम् ।] व्याख्या - सिधू इति वर्णद्वयम् । 'चिंत् धारणे' [ १३३०] इति धातोः धियँति धत्ते इत्यचि गुणेऽयादेशे सिद्धयः । तथा ‘ईङ्च् गतौ' [१२५२] क्विपि ईर्गच्छन् १ " लकारः चलने पुनः " - एकाक्षर० सुधा० श्लो० ३८ । २ सिधं धियति इति सिद्धयः अर्थात् 'सि' वर्णधारकः । ३ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148