Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 43
________________ मण्डो भूषा तं लीयसे श्लिष्यसि इति क्विपि खमण्डलीः । पुनः किम् ? 'निइन्धैप् दीप्तौ' [१४९८] इति धातोः क्विपि इत् देदीप्यमाना । कुतः ? आर्विस्तारात् । कासाम् ? प्रदीपनं प्रदीपः "क्रुत्सम्पदादिभ्यः०" [५।३।११४] इति क्विपि आमि प्रदीपां कान्तीनां प्रदीपाम् आयतेः । किम्भूतायाः ? प्रत्यूहान् विघ्नान् श्यति प्रत्यूहशः जिनः, तस्य लभां प्राप्तिं करोतीति णिजि, क्विपि प्रत्यूहशलप् तस्याः प्रत्यूहशलभः । पुनः किम् ? त्वं ई इव लक्ष्मीरिव जगत्सुखहेतुत्वात् । पुनः किम् ? कुत्सितो निःश्रीको रः कामो यस्याः सकाशात् कुरा ॥१४॥ अथ तस्यैव विभोः प्रथमगणधरं श्रीगौतम वर्णयति-तथासिद्धये वर्धमानः स्तात् ताम्रा यन्न ! खमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥१५॥ [सिद्धये वर्धमानेस्ताऽऽत्ताऽऽम्राः बन्न ! खमण्डली । प्रत्यूहशलभप्लोषेदीप्रदीपां कुराः यते ! ॥१५॥] [१ वर्धमानस्त! 'हे गौतम!' इत्येवम् अध्याहृतसंबोधनस्य विशेषणम् । २ आत्ताम्राः-आत्त+आम्र+ अस आत्ताम्राः गौतमस्य विशेषणं प्रथमैकवचनम्। ३ यन्न !-ई+अन्न-यन्न ! पूर्ववत् संबोधनरूपं विशेषणम् । ४ ख+मण्डल+इन् खमण्डली 'आत्ताम्राः' इत्यस्य विशेषणम् । ५ प्रत्यहशलभप्लोषेत्प्रत्यू+ऊह+शल+अभ+प्लोष+इत्-प्रत्यूहशलभप्लोषेत्। ०प्लोषेत्+ईप्रदीपाम्-प्लोषेदीप्रदीपाम् अत्र प्रत्यूहशलभप्लोषेत् इति प्रथमान्तम् एकवचनम् । ईप्रदीपाम् षष्ठीबहुवचनम् । ६ कुराः प्रथमैकवचनम् 'कुरास्' इत्यस्य । ७ संबोधनैकवचनम् । ] व्याख्या-वर्धमानं वीरजिनं स्वगुरुतया स्तौतीति "क्वचित्" [५।१।१७१] डे डित्यन्त्यस्वरादिलोपे वर्धमानस्तः तस्य सम्बो० हे वर्धमानस्त ! गौतम ! हे यते ! जितेन्द्रिय ! त्वं सिद्धये उपलक्षणत्वादष्टमहासिद्धयस्ताभ्यः स्तादिति क्रिया गृह्यते । त्वं किम् ? आत्तोऽङ्गीकृतो यः आम्रः सहकारवृक्षस्तद्वद् अससि शोभसे क्विपि आत्ताम्राः । यथा श्रितः आम्रस्तापापनोदको भवति तथा त्वमपीत्यर्थः । पुनः किम् ? " आ विधातरि मन्मथे" [ ]इत्यनेकार्थवचनात् आ ब्रह्मा तस्यापत्यं स्त्री अणि "अवर्णेवर्णस्य" [७।४।६८] इति आलोपे ङीप्रत्यये ई सरस्वती तस्या अन्नमिवान्नं जीवनभूतस्तस्य सम्बो० हे अन्न ! खं ज्ञानम् केवलज्ञानं तदेव मण्डलं कटक-वलयाद्याभरणविशेषो यस्य स अन्नखमण्डली “अतोऽनेकस्वरात्" [१७।२।६]इन् । पुनः किं ? १ याविस्तारात् इति उचितम्-प्लोष+इत्+ई-प्लोषेदी इत्यस्य साधनाय । २ षष्ठीबहुवचने । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148