Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 41
________________ वर्णत्वात् ताम्रो रक्तवर्णस्तद्वद् अससि शोभसे क्विपि ताम्राः यत्कारणात् 'संघाते कुठभेदे च' [है० अने० श्लो० १२७५] इत्यनेकार्थवचनात् मण्डलं कुष्ठम् तद् विद्यते यस्य स मण्डली नखं यावन्मण्डली.नखमण्डली कुष्टवानपि जनस्ते तुभ्यम् ऊहमूहं प्रति प्रत्यूहं निरन्तरम् । 'शट रुजा विशरण - गत्यवसादनेषु' [ १७५] इति गत्यर्थात् शटिधातोः शटति आश्रयतीति क्विपि "घुटस्तृतीयः " [ २|१|७६] इति डबे, ड-लयोरैक्याल्लत्वे प्रत्यूहशल नित्यं समाश्रयन् मण्डलीति ईकारप्रश्लेषात् ईं लक्ष्मीं शोभाम् - इत्यर्थः - अषेत् प्राप्नुयात् । ईम् किम्भूताम् ? ई पृथ्वी तां प्राति पूरयति “ क्वचित्” [५।१।१७१] डे ईप्रः भुवि प्रसरन् । दीपनं घञि दीपः कान्तिर्यस्याः सा ईप्रदीपा तां भूमिविस्तारकान्तिमतीमित्यर्थः । ते कथम्भूताय ? कुत्सितो निष्प्रभावत्वान्निःश्रीको रः कामो यस्मात् स कुरस्तस्मै कुराय | जनः किं० न विद्यते भा शोभा येषां ते अभा मूर्खास्तेषु विषये 'प्लुषश् स्नेहन-सेचन-पूरणेषु'[१५६२] इति स्नेहार्थात् लुषः " क्वचित्" [ ५।१।१७१] डे अभप्लोऽपि मूर्खप्रियोऽपि । अपिः अध्याह्रियते ॥ १२॥ १२ इति द्वादशार्थ्या श्रीवर्धमानं जिनं वर्णयित्वा तस्यैव जगद्गुरोर्जनकं सिद्धार्थनृपं वर्णयति । तथाहि सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥ १३ ॥ [ सिद्ध ! ये' वर्धमानस्तात्ताम्ला चैन्नखमण्डलो । प्रत्यूशलभप्लोषे दीमदीप ! अङ्कुरा येते || १३ || ] [१ 'य' पदस्य सप्तम्या एकवचनम् | २ द्वितीयपुरुषैकवचनम् पञ्चम्याः क्रियापदम् । ३ मानस्ता+अत्ता+म्लाः प्रथमैकवचनम् । ४ ई+अन्न = यन्न + ख + मण्डल - ततः मत्वर्थीयः इन् । ५ अङ्कुराः प्रथमैकवचनम् । ६ 'यत' पदस्य सप्तम्या एकवचनम् । ] Jain Education International व्याख्या - हे सिद्ध ! 'स्याद् भीमो भीमसेनः' इतिवत् “ते लुग् वा” [३।२।१०८] इत्युत्तरपदलोपात् हे सिद्धार्थनृप ! | दीप्रः केवलश्रिया दीप्यमानो दीप इव त्रिभुवनभवनप्रकाशकत्वाद् दीपः श्रीवीरजिनः पुत्रतया यस्य स दीप्रदीपस्तस्य सम्बो. हे दीप्रदीप ! त्वम् । ‘वृधूङ् वृद्धौ ' [ ९५७ ] इति धातोरात्मनेपदस्यानित्यत्वात् पञ्चम्या हौ वर्ध धन-धान्यादिना कीर्ति-महिमाssदिना च वर्धमानो भव । त्वं किम्भूतः ? मनस्ता मनोलक्ष्मीः मनःकर्म वा, तत्र भवा भवार्थेऽणि मानस्ती- मानसीया । 'अड्डि हिंसाऽतिक्रमयोः ' [६७४ ] इति धातोः क्विपि अत्, भावे तलि अत्ता हिंसा तस्याः कारणविषये For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148