Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 39
________________ १० इति चानुकृष्टहिंसाऽर्थात् शठति हिनस्तीति क्विपि सौ "धुटस्तृतीयः [२।११७६] इति ठस्य डत्वे ड-लयोरक्याल्लत्वे प्रत्यूहशल विघ्नविघातकमित्यर्थः ॥९।। सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाकुरायते ॥१०॥ [सिद्धये वर्धमान ! स्तात् तोऽम्लायन् न-खमण्डली । प्रत्यूहश ! लैंभप्लो ! दीप दीपांकुरायते ॥१०॥] [१ ता+अम्लायन्=ताऽम्लायन् प्रथमैकवचनम् ‘वर्धमान' इत्यस्य विशेषणम् । २ न+खम् (नश्च खश्च नखम् ) तस्य मण्डलं यस्यास्ति । 'वर्धमान' इत्यस्य विशेषणम् । ३ प्रति+इ+ऊ+ह+शोभ-प्रत्यूहश ! संबोधनैकवचनम् । ४ ल+भ+प्र-लभप्र! संबोधनम् । ५ उ+षा+ई-(बहुव्रीहिसमासे) उषे! संबोधनम् । ६ दीप्रदीप ! संबोधनम् । चित्रकाव्यत्वेन अनुस्वारो निरर्थकोऽपि पूरितः । ७ अ+कु-अकु+रायति-(बहुव्रीहिसमासे) अकुरायते ! संबोधनम् ।] व्याख्या-प्रगता 'अयि गतौ' [७९०] क्तौ तिर्ज्ञानं तत्त्वातत्वविवेचनरूपं यस्मात् स प्रतिः । यः इः कामस्तस्य 'अव रक्षण०' [४८९] इति दहनार्थात् “भ्यादिभ्यो वा" [५।३।११५] इति क्विपि ऊर्दहनं तस्मिन् । “हो निपाते च हस्ते दारुणि शूलिनि" [ ] इत्येकाक्षरोक्तेः हः शिवः स इव शोभसे इति "क्वचित्" [५।१।१७१] डे प्रत्यूहशस्तस्य सम्बो० । तथा “ल इन्द्रे चलनेऽपि च" [ ] इत्येकाक्षरनाममालावचनात् लेन इन्द्रेण भातीति "क्वचित्" [५।१।१७१] डे लभः स्वर्गस्तं स्वसेवकानां प्राति पूरयति ददातीति यावत् "आतो०" [५।१७६] डे लभप्रः र-लयोरैक्यात् सम्बो० हे लभप्ल ! । तथा उः शिवस्तद्वत् षा श्रेष्ठा जगद्व्यापिका ईः केवलज्ञानलक्ष्मीर्यस्य स समासान्तस्यानित्यत्वात् कजभावः उषेः तस्य सम्बो. हे उषे ! “अदेतः स्यमोः०" [११४४४] इति लुक् । तथा दीप्यते इत्येवंशील: "स्म्यजस-हिंस-दीप०" [५।२।७९] इति रे दीपो दीपनशीलो यो दीपनं घनि दीपः कान्तिर्यस्य स तस्य सम्बो० हे दीप्रदीप ! । तथा अकु: अकुत्सितो रै शब्दे' [८] इत्यतः "इ-किश्तिव्" [५।३।१३८] इति तिप्रत्यये रायतिः शब्दो यस्य स तस्य सम्बो० हे अकुरायते ! श्लेषत्वादनुस्वाराभावः । हे वर्धमान ! वीरजिन ! त्वं सिद्धये अष्टमहासिद्धिभ्यः स्तादिति सम्बन्धः अर्थात् सेवकानाम् । त्वं किम्भूतः ? ता चतुस्त्रिंशदतिशयरूपा लक्ष्मीः, तया अम्लायन् न म्लानीभवन्नित्यर्थः । पुनः किं० "नस्तु संविदि" [ ] इत्येकाक्षरवचनात् नो ज्ञानम्, खानि सौख्यानि, तेषां मण्डलं विद्यते यस्य स न-खमण्डली “अतोऽनेकस्वरात्" [७।२।६] इति इन् ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148