Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 37
________________ इति तस्य लोपे, सो रुत्वे, “अवर्ण-भो-भगो." [१।३।२२] इति लोपे दीप्रदीपाङ्कुराः प्रदीपसदृश इत्यर्थः । कस्मिन् ? इः कामस्तथा अः कृष्णस्तयोः समाहारद्वन्द्वे यम् तदेव "तस्तु तस्करे" [ ] इत्येकाक्षरोक्तेस्तस्तस्करस्तस्मिन् य-ते । यथा प्रदीपश्चौरस्य प्रतिकूलस्तथा त्वमपि जगन्मोषकस्य कामस्य, मिथ्यात्वप्रवर्तकस्य विष्णोरपि च प्रतिकूलः । त्वयि तयोः प्रभविष्णुत्वाभावात् । सिद्धये किम्भूतायै ? 'अयि गो' [७९०] 'गत्या ज्ञानार्थाः' इत्यतः स्त्रियां क्तौ प्रकृष्टा तिर्ज्ञानं यस्यासौ प्रतिनिम् । 'कहि वितर्के' [८७०] इति धातोरचि ऊहो वितर्ककृदात्मेत्यर्थः । स एव शलभान् पतङ्गान् प्लोषति दहतीति विचि शलभप्लोट् प्रदीपो यस्यां सा तस्यां प्रत्यूहशलभप्लोषे । सिद्धौ हि ज्ञानरूपो वियुक्तकर्मा प्रदीपसदृश आत्माऽस्तीति ॥७॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥८॥ [ सिद्धयेबैधमानस्ताऽऽत्ताऽम्लाऽऽयं नखमण्डलीः । प्रत्यूहशलभप्लोषे दोपदीपाङ्कराय ! ते ॥८॥] [१ सिद्धये प्रथमाया एकवचनम् । २ अर्धमान् द्वितीयाबहुवचनम् 'नखमण्डली विशेषणम् । ३ अस्त+आत्त = अस्तात्त। संबोधनकवचनम् । ४ अम्ल ! संबोधनैकवचनम् । ५ आयम् 'इण'. धातोः यस्तन्याः प्रथमपुरुषैकवचनम् । ६ नखमण्डलीः द्वितीयाबहुवचनम् । ७ दीप्रदीप ! संबोधनैकवचनम्। ८ अङ्कुराय ! संबोधन कवचनम् । ९ 'तव'अर्थसूचकं 'ते'रूपम् । ] __व्याख्या-हे अस्तात्त ! "असी गत्यादानयोश्च" [९३२] इति गत्यर्थात् क्विपि भावे तलि अस्ता ज्ञानम्, तया आत्त ! स्वीकृत ! । न म्लायसीति "क्वचित्" [५।१।१७१] डे अम्लस्तस्य सं० । प्रत्यूहा विघ्नास्त एव शलभाः पतङ्गास्तेषां प्लोषे दाहे दीप्रदीपस्तस्य सम्बो० । अङ्कुरायसे अङ्कुरवदाचरसि इति अचि अङ्कुरायस्तस्य सम्बो० हे अङ्कुराय ! सर्वदैव जरा-मरणरहितत्वेन नवीनत्वात् प्रस्तावात् श्रीवर्धमान ! ते तव नखमण्डली खश्रेणीः आयम् आश्रितवानित्यर्थः । 'इंणक गतौ' [अदादि १७] ह्यस्तन्या अम्बि रूपम् अस्मदर्थत्वादहमिति कर्ता । यतः किंवि० आ समन्तात् ऋद्धः अर्द्धः अहं याभ्यः सकाशात् ता द्वितीयाशसि समासे एकवचनत्वात् "त्व-मौ प्रत्ययोत्तर०" [२।१।११] इति मादेशे शसो नत्वे अर्द्धमान् । अहं किं० सिद्धानां मुक्तानां या या मुक्तिरूपा लक्ष्मीस्तामीप्सतीति क्विपि सौ 'पदस्य' [२।१।८९] इति सलोपे, पस्य बत्वे सिद्धयेब् मुक्तिवाञ्छक इत्यर्थः ॥८॥ १ अत्र बहुव्रीहिसमासत्वेन 'ज्ञानवान्' इति उचितम् । २ 'प्रत्यूहशलभप्लोषे' इत्यस्य चतुर्थ्यन्तत्वेन अन 'तस्यै' इति उचितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148