Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 36
________________ षठ्या प्रत्यूहः श्लेषत्वाद् विसर्गाभावः । अन्योऽपि शलभः प्रतिकूलं दीपशिखायां स्वर्णभ्रान्तिरूपम् ऊहं करोति, अग्निना च दह्यते इति । वर्धमानः किं० खं आकाशं 'मगु गतौ' [८५] इत्यतो मङ्गति गच्छतीति क्विपि “पदस्य" [२।११८९] इति गलोपे खमन् पक्षी प्रस्तावाद् हंसः, तद्वत् । 'लड विलासे' [२५४] लडतीति क्विपि लड सविलासम् । 'ईङ्च् गतौ' [१२५२] ईयते गच्छतीति क्विपि खमण्डलीः कलहंसवत् सविलासगामीत्यर्थः । ल-डयोरैक्याद् व्यत्ययः । पुनः किं० "तस्तु तस्करे" [ ] इत्येकाक्षरवचनात् तश्चौरः, तत्सदृशोऽपि रागोऽपि तस्य । 'अट्टि हिंसाऽतिक्रमयोः' [६७४] इत्यतो हिंसार्थात् क्विपि “पदस्य" [२।१४८९] इति पदान्तलोपे अत् तस्य भावः, भावे तलि अत्ता विदारणं तस्मिन् न म्लायतीति क्विपि ताऽत्ताऽम्लाः । पुनः किं० 'षिधू गत्याम्' [३२०] सेधति जानाति तत्त्वातत्त्वमिति विवपि सित् तत्त्वज्ञ इत्यर्थः ॥६॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥७॥ [ सिद्धये वर्धमान ! स्तात् ताम्रायन्नख ! मैं डैलीः। प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करा य-ते ॥७॥] [द्वितीयपुरुषैकवचनं पञ्चम्याः कियापदम् 'अस्'धातोः । २ इदं ‘वर्धमान' इत्यस्य विशेषणम् संबोधन-एकवचनम् । ३ मं' द्वितीयान्तं माम्' इत्यर्थे । ४ ड+लीः = डलीः प्रथमान्तम् एकवचनम् । ५ प्रअय्+ति-प्रति-ऊह-प्रत्यूह. अत्र प्रतिः प्रकृष्टज्ञानवान् तथा ऊहः आत्मा तपः स एव शलभप्लोष-शलभप्लोषे चतुर्थ्याः एकवचनम् । ६ दीप्रदीपाकुराः प्रथमाया एकवचनम् । ७ इ+अन्य+तम्यते सप्तम्या एकवचनम् ।] व्याख्या-ताम्रा रक्तवर्णा अयन्तः इशब्दादाचारे क्विपि घातुत्वे शतरि कामवदाचरन्तो नखा यस्य स ताम्रायन्नखस्तस्य सं० । हे वर्धमानजिन ! वीरजिन ! त्वं सिद्धये मोक्षाय मां आचक्षाणो णिजि मदयतीति वाक्ये विपि सौ "णेरनिटि" [४।३।८३] इति णिज्लोपे “त्व-मौ प्रत्ययोत्तर०" [२।१।११] इति मादेशे, परमते सेरमादेशे, “शेषे०" [२।१।८] इति दलोपे में मामाचक्षाणो धर्मोपदेशाय स्ताद् भवतादिति सम्बन्धः। यतस्त्वं किं “डः शिवे ध्वनी" [ ]इत्येकाक्षरवचनात् डः- शब्दः-देशनाध्वनिस्तं लीयसे श्लिष्यसीति क्विपि डलीर्देशनां कुर्वन्नित्यर्थः । पुनः किं. दीप्रो दीपनशीलो यो दीपाङ्कुरः प्रदीपस्तद्वद् 'असी गत्यादानयोश्च' [९३२] इति चानुकृष्टदीप्त्यर्थादसतेः, अससि दीप्यसे इति क्विपि, सौ “दीर्घयाब्०" [१।४।४५ १ "तकारस्तस्करे"-एकाक्षर० सुधा. लो. २३ ।। २ 'डो वृषाङ्के ध्वनावपि'-एकाक्षर० सुधा० श्लो० २१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148