Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 35
________________ स्त भवत वर्तध्वे इत्यर्थः । यत् यस्माच्चकारो ग्राह्यः च पुनर्यस्याद् यूयं खमण्डलीः ज्ञानश्रेणीर्न अत्त भक्षयत-न हत इत्यर्थः । अग्रे तच्छब्दग्रहणात् तत् तस्मात् कारणाद् यूयं दीप्रदीपवदाचरणं "कर्तुः विप्०" [३।४।२५] इति क्विपि, “शंसिप्रत्ययात्" [५।३।१०५] इत्यप्रत्यये, स्त्रीत्वे "आत्" [२।४।१८] इत्यापि दीप्रदीपा प्रदीपवदाचरणं तां प्रत्यूह प्रतिवहथ स्म । प्रतिपूर्वाद् वहेः परोक्षायुष्मदर्थबहुवचने "यजादि." [४।१७९] इति वृति, "द्विर्धातुः०" [४।१।१] इति द्वित्वे "समानानाम् ०" [११२।१] इति दर्धि सिद्धिः । कस्मिन् ? 'शट रुजा-विशरण-गत्यवसादनेषु' [१७५] इति शटति रुजति इति क्विपि, टस्य डत्वे ड-लयोरैक्ये शल जगत्पं डको यः आत् कृष्णाद् भवतीति "क्वचित्" [५।१।१७१] डे अभः कामः, तस्य प्लोषे विनाशे । यूयम् किं० कुः स्थानम् कस्य ? आयतेौरवस्य ॥५॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्युहशलभप्लोषे दीप्रदीपाकरायते ॥६॥ [सिद्धये ! वर्धमानस्ताऽत्ताऽम्ला यन्न ! खमन्डलीः । प्रत्यः शलभः लोषेऽदीप्रदीपाङ्कराय ! ते ॥६॥] [१ सित् प्रथमाया एकवचनम् 'वर्धमानः' इत्यस्य विशेषणम् । २ 'हयि' इत्येवम् इकारान्तस्य शब्दस्य संबोधनैकवचनम् । ३ ताऽत्ताऽम्लाः प्रथमाया एकवचनम् 'वर्धमानः' इत्यस्य विशेषणम् । ४ इ+अन्न-यन्न ! 'हये' इत्यस्य विशेषणं संबोधनरूपम् । ५ खमण्डली (ख+मन+लड्+ई) प्रथमाया एकवचनम 'वर्धमानः' इत्यस्य विशेषणम अत्र 'लट' : :' इत्यस्य विशेषणम् अत्र 'लड्' इत्यस्य व्यत्यये 'डल' इति बोध्यम् 'मन्' इति च 'मङ्ग' धातोः साध्यम् । ६ षष्टया एकवचनम् 'ते' इत्यस्य षष्ठयन्तस्य विशेषणम् । ७ अदीप्रत् इति कियापदम् । ८ 'ईपाङ्कुराय' इति ‘हये' इत्यस्य विशेषणम् संबोधनरूपम् ।] व्याख्या-सिद्धये इत्यत्र हये इति "हयिः कामः": [उणादिसू० ६०६] इत्युणादिवचनात् हे हये ! काम !। हे ईपाङ्कुराय। ई लक्ष्मी स्वजायात्वेन पातीति "आतो डः०" [५॥११७६] डे ईपः कृष्णस्तस्य अङ्कुरवत् प्ररोहवदाचरतीति क्यङि, अचि ईपाङ्कुरायस्तस्य सम्बोधनम् । कामो हि विष्णुपुत्र इति । तथाई लक्ष्मीः सैव अन्नमिव अन्न जीवनं यस्य स यन्न तस्य सम्बो । ते तव प्लोषे दाहे वर्धमानो वीरजिनो अदीप्रत् 'अग्नौ वमिर्दीप्रः' [शेषना. देव०ला०प्र० १६६अथवा निर्णय०१७११]इति शेषनिघण्टुवचनात् दीप्र इवाग्निरिवाचरदित्यर्थः । यतस्ते किम्भूतस्य ? शलभ इव पतङ्ग इवाचरतीति क्यङि क्विपि तल्लोपे “अतः" [४।३१७२। इत्यल्लोपे, “य्वोः प्वय्०"[४।४।१२१] इति यलोपे शलभाः तस्य; "लगातोऽनाः" [१।१।१०७] इत्यालोपे शलभः । पुनः किं० प्रतिकूलं परस्त्रीगमनादिरूपम् ऊहं तक करोतति णिजि, स्विपि,तल्लोपे ऊहू, अतः प्रकृते Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148