Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 32
________________ "भेदो न चित्रकाव्योपयोगिताभाजि रचित एतेषाम् । ब-वयोर्ड-णयोर्य-जयोर्ड-लयो र-लयोः क्वचित् श-सयोः" ॥१॥ [ ] स इति ग्रहणात् यन्नखमण्डली यस्य नखश्रेणिः प्रपूर्वात् 'अयि गतौ' [७९०] इत्यतः स्त्रियां क्तौ ' य्वोः प्वय ०" [सिद्धहेम० ४।४।१२१] इति यलोपे, “अतः" [४।३।८२] इति अतो लोपे प्रतिनिम् ऊहस्तर्कस्तावेव शरो मुजाख्यतृणविशेषः। तस्मिन् भातीति "क्वचित्" [५।१।१७१] डे प्रत्यूहशलभप्लोषः 'प्लुशश् स्नेहन-सेचनपूरणेषु' [१५६२] इत्यतो घनि प्लोषः सेचनं तस्मिन् “अङ्कुरं सलिले रोम्णि रुधिरेऽभिनवोद्गमे" इत्यनेकॉर्थवचनाद् अङ्कुरं जलं तद्वदाचरत् इति क्यङि ह्यस्तन्याम् आङ्कुरायत अजलायत-अयमर्थः-यस्य नखश्रेणिनि-विचारतृणसेचने जलवदाचरति स्मेति । यन्नख० किंवि० दीप्रो दोपनशीलो दीपनं घञि दीपः कान्तिर्यस्याः सा दीप्रदीपा । अत एव पुनः किंवि० इ: कामस्तद्वत् ई लक्ष्मीः कान्तिर्यस्याः सा ई समासान्तविधेरनित्यत्वात् कजभावः कामवत् रक्ता इत्यर्थः ॥२॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥३॥ [ 'सिद्धये वर्धमानः स्तात् तीम्राऽयन् नः खेमन् 'डलीम् । प्रत्यू हशरभप्लोषे दीपदीपां'' ''कुरायते ॥३॥] [१ सिद्ध+ई सिद्धे, अस्य चतुर्थ्या एकवचनम् । २ इ+विवप्-अयति-शत-अयन् । ताम्र+अयन= ताम्रायन्-प्रथमाया एकवचनम् वर्धमानविशेषणम् । ३ षष्ठीबहुवचनम् । ४ प्रथमाया एकवचनम्, वर्धमानविशेषणम् । ५ लडू इत्यस्य व्यत्यये डल् प्रथमाया एकवचनम् , वर्धमानविशेषणम् । ६ डल+ईम, ईम् प्रति' इति सम्बन्धः । ७ ऊ+ह+शरात् । ८ भवति इति भः । ९ प्र+वस्-प्रोष् प्रोषे चतुर्या एकवचनम् 'सिद्धये' इत्यस्य विशेषणम् । १० तृतीयाया एकवचनम् । ११ कु+राज्-कुर+अय-कुराय । ताय्+क्विप-ता । कुराय+ताम्कुरायताकुरायते चतुर्थ्या एकवचनम् । इदमपि 'सिद्धये' इत्यस्य विशेषणम् ।] व्याख्या-वर्धमानो जिनः । 'नख'इति । अत्र श्लेषत्वाद् विसर्गलोपे नः अस्माकं सिद्धा सम्पन्ना चासौ ईश्च लक्ष्मीश्च सिद्धे तस्यै सिद्धये स्ताद् भवतादिति सम्बन्धः । वर्धमानः किंभूतः ? खानि इन्द्रियाणि मन्दयति क्षयं नयतीति क्विपि खमन् जितेन्द्रिय इत्यर्थः । अत्र सौ "पदस्य" [२।१।८९] इति दलोपे सिद्धम् । तानं धातु १ ग्रन्थकारेण सर्वत्र सिद्धहेमसूत्राणां प्राय उपयोगः कृतः । २ अत्र 'प्र+अय+ति' इति अवस्थायां 'य' लोपे कृते 'अ'लोपार्थ ग्रन्थकारेण 'अतः' [४।३।८२] सूत्रं दर्शितम् परन्तु तेन सूत्रेण अकारान्ताद् धातोः विहिते प्रत्यये लोपो विधीयते अतः तत् सूत्रं ग्रन्थकारेण परमता. श्रयणेन प्रवर्तितम् इति ज्ञायते, एवं सर्वत्र बोध्यम् । ३ “अङ्कुरो रोम्णि सलिले रुधिरेऽभिनवोद्गमे"-हैम० अने० ३,५११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148