Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad
View full book text
________________
प्रार्थनीयार्थसार्थरत्नरत्नमञ्जूषिकानुकारिकायाः प्रथमकारिकायाः कानिचिदर्थरत्नानि प्रादुर्बिभावयिषुः कविः प्रथममेतवृत्तनायकत्वेन द्वादशार्थ्या श्रीवर्धमानं जिनं वर्णयति
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥१॥ [ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डलीः ।
प्रत्यूहशलभप्लोषेऽदीमंदीपाङ्कुरायतेः ॥१॥] [१ मण्डली-ई: = मण्डलीः । २ अदीप्रदीपाङ्कुरायत+ईः = अदीप्रदीपाङ्कुर यतेः । चित्रकाव्यत्वेन अत्र विसर्गा न गण्यन्ते इति सर्वत्र बोध्यम् ।]
वर्धमानो वीरजिनः सिद्धये अभिमतकार्यनिष्पत्तये स्ताद् भवताद् इति सम्बन्धः । उत्तरार्धगो यच्छब्दः पूर्वार्द्ध तच्छब्दं द्योतयतीति स इति ग्रहणात् वर्धमानः किंलक्षणः ? सः कः ? इत्याह-यन्नखमण्डलीः यस्य नखश्रेणी, तस्याः सकाशात् 'ईच् गतौ' [१२५२] इत्यत ईयते निर्गच्छतीति क्विपि यन्नखमण्डली:-यस्य नखश्रेणितो निर्गच्छ-ती ०दीपाङ्कुरायते इत्यत्र ईकारप्रश्लेषे ईर्लक्ष्मीर्लक्षणया कान्तिः, प्रत्यूहा इव प्रत्यूहा विघ्नसदृशा राग-द्वेषादयस्त एव शलभाः पतङ्गास्तेषां प्लोषे दहने अदीप्रदीपाङ्कुरायत दीप्रदीपाङ्कुरवदाचरदिति क्यङि हस्तन्यामात्मनेपदान्यदर्थंकवचनेऽडागमे रूपसिद्धिः । यथा प्रदीपः शलभान् पतङ्गान् तथा यन्नखश्रेणीप्रभा रागादीनपीत्यर्थः । यन्नख० किंविशिष्टा ? ताम्रा रक्ता। दीपशिखाऽपीडशी भवति ॥१॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥२॥ [ सिद्धये वर्धमानः स्तात् ताऽम्ला यन्नखमण्डली ।
प्रत्यूहशैरभप्लोषे दीप्रदीपाऽऽङ्करायते ॥२॥] [१ प्रतिश्च ऊहश्च प्रति-ऊहौ-प्रत्यूहौ। २ शरे भाति इति शरभः-शलभः । ताऽम्ला ताम्रा । चित्रकाव्यत्वेन रस्य लत्वम् लस्य च रत्वं सर्वत्र ज्ञेयम् । ३ प्लोषः सेचनम् । ४ आकुरायत-अङ्कुर इव आचरत् । ५ यत+इ-ई० यते ।]
___ व्याख्या-वर्धमानो जिनः 'षिधू गत्याम्' [३२०] इत्यतो गत्यर्थानां ज्ञानार्थत्वात् क्तिप्रत्यये सिद्धये ज्ञानाय अर्थात् सेवकानां स्तात् भवतु इति सम्बन्धः । यतः किंवि० तया कैवल्यलक्ष्म्या न म्लायतीति क्विपि ताऽम्ला र-लयोरैक्यान्न दोषः । एवं ब-बयोर्ड-लयोः श-सयोश्चैश्यं यथासम्भवं स्वयं ज्ञेयम् । यदुक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148