Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
________________
प्रमेयचन्द्रिका टीका श० १२ उ० १० सू०३ रत्नप्रभादिविशेषनिरूपणम् ३९७
आत्मा भदन्त ! त्रिप्रदेशिकः स्कन्धः, अन्यस्त्रिप्रदेशिकः स्कन्धः ? गौतम ! त्रिप्रदेशिकः स्कन्धः स्यात् आत्मा १, स्यात् नो आत्मा२, स्यात् अवक्तव्यम्आत्मा इति च नो आत्मा इति च३, स्थात् आत्मा च नोआत्मा च४, स्यात् आत्मा च नोआत्मानौ च५, स्यात् आत्मानौ च नो आत्मा च ६, स्यात् आत्मा च अवक्तव्यः आत्मा इति च नो आत्मा इति च ७, स्यात् आत्मा इति च, अबक्तव्यौ आत्मानौ च नोआत्मानौ च ८, स्यात् आन्मानौ च अवक्तव्यः-आत्मा इति च नोआत्मा इति च९. स्यात् नोआत्मा च अवक्तव्यः-आत्मा इति च नो आत्मा इति च १०, स्यात् नो आत्मा च अवक्तव्यौ-आत्मानौ च नोआत्मानौ च११, स्यात् नो आत्मानौ च अवक्तव्यः-आत्मा इति च नो आत्मा इति च१२, स्यात् आत्मा च नो आत्मा च अवक्तव्यः-आत्मा इति च नो आत्मा इति च१३, तत् केनार्थेन भदन्त ! एवमुच्यते-त्रिमदेशिकः स्कन्धः स्यात् आत्मा एवमेव उच्चारयितव्यं यावत् स्यात् आत्मा च, नो आत्मा च अवक्तव्यम्-आत्मा इति च, नो आत्मा इति च ? गौतम ! आत्मनः आदिष्टे आत्मा१, परस्य आदिष्टे नो आत्मा२, तदुभयस्य आदिष्टे अवक्तव्यम्-आत्मा इति च, नो आत्मा इति च३, देश आदिष्टः सद्भावपर्यवः देश आदिष्टः असदभावपर्यवः त्रिप्रदेशिकः स्कन्धः आत्मा च नो आत्मा च४, देश आदिष्टः सद्भावपर्यवः देशी, आदिष्टौ असद्भावपर्यवी त्रिप्रदेशिकः स्कन्धः आत्मानौ च नोआत्मानौ च५, देशौ आदिष्टौं सद्भावपर्यवौ देशआदिष्टः असद्भावपर्यवस्त्रिप्रदेशिकः आत्मानौ च नो आत्मा च६, देशे आदिष्टः सद्भावपर्यवो देश आदिष्टस्तदुभयपर्यवत्रिपदेशिकः स्कन्धः आत्मा च अवक्तव्यः-आत्मा इति च नो आत्मा इति च७, देश आदिष्टः सद्भावपर्यवः, देशौ आदिष्टौ, तदुभयपर्यवौ, त्रिपदेशिकः स्कन्धः आत्मा च अब क्तव्यौ आत्मानौ च नो आत्मानौ च८, देशौ आदिष्टौ सद्भावपर्यवी, देश आदिष्टस्तदुभयपर्यवः त्रिप्रदेशिकः स्कन्धः आत्मानौ च अवक्तव्यः-आत्मा इति च नो आत्मा इति च९, एते त्रयो भङ्गाः९। देश आदिष्टः असद्भावः देश आदिष्टस्तदुभयपर्यवस्निपदेशिकः स्कन्धः नो आत्मा च अवक्तव्यः-आत्मा इति च नो आत्मा इति च १०, देश आदिष्टः असद्भावपर्यवो देशौ आदिष्टौ तदुभयपर्यवौ त्रिप्रदेशिकः स्कन्धो नो आत्मा च अवक्तव्यौ आत्मानौ नोआत्मानौ च११, देशौ आदिष्टौ असद्भावपर्यवौ, देश आदिष्टः तदुभयपर्यवत्रिपदेशिका स्कन्धो नो आत्मानौ च अवक्तव्यः-आत्मा इति च नो आत्मा इति च१२, देश आदिष्टः सद्भावपर्यवः देश आदिष्टः असद्भावपर्ववः देश आदिष्टस्तदुभयपर्यवस्लिमदेशिका स्कन्धः आत्मा च नो आत्मा च अवक्तव्या-आत्मा इति च नो:
શ્રી ભગવતી સૂત્ર : ૧૦