________________
आ. दि. ४७
Jain Education Interna
'उठावणा पहावण खित्तो वहि मग्गणा सुयभिसाइ । सुत्तत्थं तदुभयविओ गणतन्तिल्लो पवत्तीओ १ ॥३॥' स्थ| विर: 'सर्वसंयमिनां स्थिरीकारकृत् थिरकरणा पुण घोरो पवत्ति यावारि एसु अत्थेसु । जो जत्थ सीअइज्जई संतबलो तं थिरं कुणइ १ ॥ ४ ॥' रत्नाधिको यो गुणरत्नैः सर्वेभ्योऽधिकः ५ । एतेषां कृतिकर्म वन्दनककार्य निर्जराधे कर्मक्षयार्थमित्यर्थः । एवं ९८ ॥ पञ्च अवन्दनीया यथा - 'उवसन्नो १ पासत्थो २ होइ कुसीलो ३ तहेव संसत्तो ४ । अहछंदोविअ ५ एए अवंदणिजा जिणमयम्मि ॥ १ ॥' अवसन्नः यः संयमपालनादवसादं खेदं प्राप्तः तस्मिन् शिथिलतां प्रपन्नः । अवसन्नस्य सर्वदेशभेदेन व्याख्या आवश्यकादवसेया १, पार्श्वस्थो यः | ज्ञानदर्शनचारित्राणां मध्यं विहाय तेषां पार्श्व एव स्थितः । एतस्य च सर्वदेशव्याख्या आवश्यकात् २, कुशीलः यः कुत्सिताचारसावद्यनिरतः ३, संसक्तो यः कुसङ्गो दग्धचारित्रः ४, यथाच्छन्दः त्यक्तगणसंघो यथेष्टचारी ५, एतेषां विस्तरव्याख्या आवश्यकोपदेशमालादितः । अयं आचारग्रन्थः । छायार्थ एवात्र जिनमते । | एते अवन्दनीयाः । यदुक्तं - 'पासच्छा इवंदमाणस्स नेअकित्ती न निचरा होइ । कायकिलेसं एमेव कुणई तह कम्मबंधं च ॥ १ ॥ एवं १०३ ॥ पञ्चोदाहरणानि यथा - 'दवे भावे वंदण १ रयहरणा २ वत्त ३ नमण ४ विणएहिं । सीअल १ खुहुय २ कण्हे ३ सेवय ४ पालय ५ उदाहरणा ॥ १ ॥' द्रव्यभाववन्दने शीतलाचार्यदृष्टान्तः १, रजोहरणे क्षुल्लकाचार्यदृष्टान्तः २, आवर्तेषु कृष्णदृष्टान्तः ३, नमने सेवकदृष्टान्तः ४, विनये पालकदृष्टान्तः ५, एतेषां कथानकानि आवश्यकवृत्तेरवसेयानि । एवं १०८ ॥ एकोऽवग्रहो यथा - 'देविंद १
For Private & Personal Use Only
www.jainelibrary.org