Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आ. दि.६७
Jain Education Inte
॥ २६ ॥ इति प्रतिष्ठानिर्यासः ॥ ॥ यच्छान्तिकर्म तद्विप्रशान्तये परिकीर्तितम् । चतुर्णिकायदेवानां पूजनं तत्प्रसादकृत् ॥ २७ ॥ भवेत्तेषु प्रसन्नेषु सर्वविघ्नपरिक्षयः । उत्पातादावनिष्ठे च शान्तिकं यद्विधीयते ॥ २८ ॥ तज्जिननात्रविधिना सर्वदोषनिकृन्तनं । शान्तिपातोद्घोषणेन दुष्टानां प्रलयो भवेत् ॥ २९ ॥ इति शान्तिकनिर्यासः ॥ ॥ पौष्टिकं कर्म यत्तत्स्यात्सर्वारम्भेषु पुष्टिदं । सुपूजिता देवताः स्युर्नियतं कार्यसिद्धये ॥ १३० ॥ इति पौष्टिकनिर्यासः ॥ ॥ बलिदानं हि देवानामुक्तानां कर्तृतोषकृत् । अमुक्तानां प्रीणनाय जायते मङ्गलाय च ॥३१॥ इति बलिकर्मनिर्यासः ॥ ॥ यत्प्रायश्चित्तचरणं प्रमादात्कृतपाप्मनां । विशुद्धये तज्जायेत न शुद्धिईसपाप्मनां ॥ ३२॥ यद्वाह्यानां दुराचारकृतं शुद्धिरुदीरिता । लोकव्यवहृतेः सा तु परमार्थो हि चान्तरः ॥ ३३ ॥ इति प्रायश्चित्तनिर्यासः ॥ ॥ आवश्यकं षडिधं यन्मीलितं वा विधीयते । दिवा रात्रौ पक्षमासवत्सरेषु विशुद्धये ॥ ३४ ॥ तदावश्यकयोग्यानां कर्मणां घातहेतवे । शुभध्यानसंविदे च निर्दिष्टं परमेश्वरैः ॥ ३५ ॥ इत्यावश्यक निर्यासः ॥ ॥ तपोविधानं षोढा यद्वाह्यं स्यान्निर्जराकृते । तद्वै नित्यं न कोपि स्यात्कर्तुं सामर्थ्य - भाजनं ॥ ३६ ॥ अवधेः कल्पनात्तेन विहिता तपसां बुधैः । स्वशक्तितः कोपि किंचित्करोतु तपसो विधिं ॥ ३७ ॥ इति तपोविधिनिर्यासः ॥ ॥ पदारोपो हि सर्वेषां मुख्यत्वस्य प्ररूपणं । एकः प्रभुर्हि सर्वेषां योगक्षे मादिकारकः ॥ ३८ ॥ अप्रभुत्वेन सर्वे स्युर्दुःखिनः खामिनं विना । बहुप्रभुत्वे न पुनः सर्वेषां स्यात्प्रतिक्षयः ॥ ३९ ॥ मुद्रादीनां तु निर्यासो मन्त्रशास्त्राद्विलोक्यताम् । यन्नामकरणं युक्तं तत्तत्संवित्तिहेतवे ॥ १४० ॥
1
For Private & Personal Use Only
www.jainelibrary.org.

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534