Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचार
दिनकरः
॥ ३९३ ॥
Jain Education Inter
यत्सर्वकार्येषु पुनः सुमुहूर्तावलोकनं । तत्सत्कालविपाकाय वीतरागैरुदीरितं ॥ ४१ ॥ जीवेन विहितं कर्म कालात्पाकमुपैति च । अतो जीवकर्मकालाः कारणं सर्ववस्तुषु ॥ ४२ ॥ इति पदारोपनिर्यासः ॥ ॥ एवं गृहस्थाचारस्य यत्याचारस्य सर्वथा । विदित्वा परमार्थ हि कर्म तत्सर्वमाचरेत् ॥ ४३ ॥ अमुना कर्मयोगेन धर्मनिर्वहणस्थितेः । प्राणी सर्वत्र जीयेत चक्रित्वेन्द्रत्वभाजनं ॥ ४४ ॥ अयं कर्मनियोगस्तु शुभः शुभफलप्रदः । अतोपि विपरीतो यः सोऽशुभं ददते फलं ॥ ४५ ॥ इति सर्वशुभाचारनिर्यासः ॥ ॥ एवं कृत्वा सदाचारं प्राणी प्राप्नोति वाञ्छितं । यन्मोक्षहेतु तत्किंचिदन्यद्गम्यं गुरोर्मुखात् ॥ ४६ ॥ कर्मक्षयात्पञ्चमोक्षो न शुभात्कर्मणः कचित् । किं स्वर्णनिगडैर्युक्तो यन्त्रितो नाभिधीयते ॥ ४७ ॥ दुष्कर्मणा फलं दुष्टं शुभं स्याच्छुभकर्मणा । अतस्तुल्यफलप्राप्तौ क मोक्षस्यावकाशिता ॥ ४८ ॥ अथ वा निर्जरा प्रोक्ता तपसो द्वादशात्मकातू । दुष्कर्म निर्जराय स्याच्छुभकर्माभिवेष्टनं ॥ ४९ ॥ स्याद्व्याघ्रदुस्तदीन्यायो जन्तोर्मोक्षस्य साधने । शुभकर्मविघाते स्यादुदयो दुष्टकर्मणां ॥ १५० ॥ दुष्कर्मणां विघाते स्यादुदयः शुभकर्मणां । एवं सति च किं त्याज्यं किं कार्यं मोक्षकाङ्क्षिभिः ॥ ५१ ॥ उष्णाशनाद्भवेत्पित्तं मरुच्छीताशनादिभिः । समाशनाद्वयोर्वृद्धि|भवेत्किं भुज्यते हि तत् ॥ ५२ ॥ अथ द्वयोर्विघाति स्यादौषधं वस्तुनः स्वयं । स्वप्रभावं रचयति देहे किं तद्विधीयते ॥ ५३ ॥ एकस्य विपरीतं हि विद्यते यत्सनातनं । जलं स्थलं वृषः पाप्मा सज्जनो दुर्जनस्तथा ॥ ५४ ॥ क्ष्वेडोऽमृतं दुर्गतिश्च सुगतिर्दुःखिता सुखं । साधुः खलो रिपुर्मित्रमेवमादि द्वयं द्वयं ॥ ५५ ॥ परस्परविरो
For Private & Personal Use Only
विभागः २
व्यवहार
| परमार्थः
॥ ३९३ ॥
www.jainelibrary.org

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534