Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचार
दिनकरः
॥ ३९५ ॥
Jain Education Interna
व्याख्यास्तत्वस्य याः परं । स्याद्वादं ताः समायान्ति सरितः सागरं यथा ॥ ४ ॥ ततः स्याद्वाद्मालम्ब्य राग| द्वेषौ विवर्जयेत् । मतानि वापि सर्वेषां न निन्द्यान्न स्तुयादपि ||५|| ज्ञानं स्याद्वादमालम्ब्य दर्शनं चाहरेद्धृदि । मिथ्यात्वमिश्र सम्यक्त्ववर्जितं क्षायकादिकं ॥ ६ ॥ यच्छ्रद्धानमनैकान्त्ये या भृशं निःकषायता । विषयोपशमो यस्तु तद्दर्शनमुदीरितं ॥ ७ ॥ कदाग्रहो न सम्यक्त्वं मिथ्यादर्शनमेव तत् । यच स्याद्वादमालम्ब्य श्रद्धानं तद्धि दर्शनं ॥ ८ ॥ तस्मादेकग्रहं मुक्त्वा रागद्वेषविवर्जितः । मनःशुद्धिसमायुक्तो मोक्षार्थी दर्शनं श्रयेत् ॥ ९ ॥ चारित्रं नाम यत्तत्र मुण्डने लुञ्चनेपि वा । न नाइये चीवरादाने जटानां बन्धने न च ॥ २९० ॥ न रक्तश्वेतवस्त्रत्वे नैव वल्कलधारणे । न भिक्षाभोजने नाग्निजलाद्यैः खाङ्गतापने ॥ ११ ॥ या दया सर्वभूतेषु यत्सत्यं च हितं वचः । यन्निस्पृहत्वं भावेषु ब्रह्मचर्यं त्रिधा च यत् ॥ १२ ॥ शत्रौ मित्रे भवे मोक्षे खर्णे पाषाण एव च । वने पुरे गृहे वृक्षे तृणे स्त्रैणे विषेऽमृते ॥ १३ ॥ नृपे रङ्के सुजने च दुर्जने बालिशे बुधे । चन्दनेऽग्नौ यत्समत्वं यत्सर्वेषामनिन्दनं ॥ १४ ॥ यदात्मनिन्दनं चैव परोपेक्षाविवर्जितं । सर्वजीवहितत्वं यद्यद्राग| द्वेषघातनं ॥ १५ ॥ या सान्तता परं गाढा यदन्यरतिवर्जनं । भयशोकजुगुप्सानामभावः परमार्जनं ॥ १६ ॥ क्षमाया गतमोहत्वं यत्सावद्योज्झितं मनः । एतदेव हि चारित्रं मोक्षाध्वा सरलो मतः ॥ १७ ॥ जटिलो मुण्डितो वापि गृही वा म्लेच्छ एव वा । एतचारित्रमासाद्य मोक्षं प्राप्नोति निश्चितं ॥ १८ ॥ ज्ञानदर्शनचारित्राण्येवं मोक्षपथः परं । अन्यस्तु सरलः पन्थाः श्रूयते नात्मसंगतः ॥ १९ ॥ मैत्रीप्रमोदकारुण्यमाध्यस्यै
For Private & Personal Use Only
विभागः २
व्यवहारपरमार्थः
॥ ३९५ ॥
www.jainelibrary.org

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534