Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 528
________________ Jain Education Internati र्वासितं मनः । समाधानेन संपृक्तं मोक्षदानाय कल्पते ॥ २२० ॥ मोक्षः कर्मक्षयादेव स चात्मज्ञानतो भवेत् । ध्यानसाध्यं मतं तच तद्ध्यानं हितमात्मनः ॥ २१ ॥ न साम्येन विना ध्यानं न ध्यानेन विना च तत् । न कम्पं जायते तस्माद्वयमन्योन्यकारणं ॥ २२ ॥ तस्मात्समाधिमासाद्य प्राप्नुवन्ति शिवं जनाः । तपोभिर्दुष्करैश्चीजैर्न समाधिं विना कचित् ॥ २३ ॥ औदासीन्यं हि सर्वत्र देहिनां मोक्षकारणं । प्रतिबन्धस्तु यस्तत्र मानसो बन्धकृच्च सः ||२४|| शब्दरूपरसस्पर्शगन्धैर्युक्तो मनोहरैः । औदासीन्यसमाधिस्थो न लेपं प्राप्नुयाज्जनः ||२५|| मनः सर्वेषु भावेषु प्रसरत्सु निरर्गलं । औदासीन्यसमासीनं न बन्धाय प्रकल्पते ॥ २६ ॥ विहाय सर्वतत्त्वानि बाह्यानि विबुधो जनः । आत्मज्ञाने परं चेतः स्थापयेत्स्थिरतां गतं ॥ २७ ॥ जन्मकोटिगतैर्दानैस्तपोभिरतिसत्तमैः । आत्मज्ञानं विना नैव मोक्षो भवति देहिनां ॥ २८ ॥ संगृह्णन्सर्वविषयान्सर्वकर्मकरोपि हि । आत्मज्ञानी न बन्धेन बध्यते भवहेतुना ॥ २९ ॥ न पुण्यं नैव वा पापं जायते विदितात्मनां ॥ शुभाशुभैः कृतैः | कायैर्ध्यानाग्निष्लष्टकर्मणां ॥ २३० ॥ यथा घृतष्ठुते कुम्भे जलक्लेदो न जायते । तथात्मज्ञातरि परं कर्मबन्धो न कुत्रचित् ॥ ३१ ॥ भवेदात्मविदः सर्व तृणवद्विष्टपं श्रुतं । आत्मानन्दविनिर्मग्नो नान्यज्जानाति किंचन ॥ ३२ ॥ ततः सद्गुरुयोगेन ज्ञात्वात्मानं नरोत्तमः । समाधानं परं चेतो निदधीत ऋमोज्वलं ॥ ३३ ॥ यथा गृहस्थधर्मेषु सुभार्या सारमुत्तमं । तथा यतीनां सर्वेषां समाधिर्मोक्षकारणं ॥ ३४ ॥ परित्यज्याखिलं जालं व्यर्थ वाग्वैभवोदितं । आत्मज्ञानात्समाधाने स्थाप्यं मोक्षार्थिभिर्मनः ॥ ३५ ॥ आचारसंपादित सर्वकार्या For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534