Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 531
________________ आचारदिनकरः प्रशस्तिः ॥३९७॥ कृत्पद्देऽभयदेवप्रभुर्गुरोः। तस्य स्तम्भनकाधीशमाविश्चक्रे समं गुणैः ॥१३॥ श्राद्धप्रबोधप्रवणस्तत्पद्दे जिनवल्लभः । सूरिवल्लभतां भेजे त्रिदशानां नृणामपि ॥ १४॥ ततः श्रीरुद्रपल्लीयगच्छसंज्ञालसद्यशाः। नृपशेखरतां भेजे सूरीन्द्रो जिनशेखरः ॥१५॥ दुर्वादिपद्मचन्द्राभां पद्मचन्द्रगणाग्रणीः । बभार तत्पदे पद्मां मुदा निच्छद्मता गतः ॥१६॥ श्रीमान्विजयचन्द्राख्यः सूरिर्विजयमादधे । ततस्तस्य पदे रेजेऽभयदेवगणाधिपः ॥१७॥ देवभद्रस्ततो भद्रंकरसूरिरजायत । प्रभानन्दो महानन्दं ततः संघेऽप्यवर्धयत्॥१८॥ श्रीश्रीचन्द्रगणाधीशः |श्रीदोऽजनि ततो गुरुः । तत्पट्टे जिनभद्राख्यः सूरिभद्रं ततान च ॥१९॥ जगत्यर्यमतां प्राप्तो जगत्तिलकसूरिराट् । सिद्ध्या तपासमृद्ध्या च द्योतयामास भूतलं ॥ २० ॥ गुणचन्द्रगुरुस्तस्माद्गुणैश्चन्द्रकरोजवलः। तत्पद्देऽभयदेवाख्यः प्रख्यातोऽजनि सूरिराट् ॥ २१॥ तत्पट्टे सांप्रतं विश्वविश्वविख्यातसद्गुणः । श्रीमान्सूरिर्जयानन्दो जयानन्दमहास्पदं ॥ २२॥ दुर्वादिमदसंहर्ता हर्ता च सकलांहसां । विभाति सर्वदेशेषु विहर्ता | गणनायकः ॥ २३ ॥ युग्मं । स्खं गच्छं शासतस्तस्य तत्पद्देऽभयसद्गुरोः। शिष्यः श्रीवर्धमानाख्यः सूरिरस्ति प्रशान्तधीः ॥ २४ ॥ तेनालोक्यागमार्थ च श्रीमदावश्यकोदितं । दिग्वस्त्रश्वेतवस्त्राणां शाखाचारं विचार्य च ॥ २५ ॥ हिताय सर्वसाधूनामाचारख्यापनाय च । निर्ममे शास्त्रमेतच दुष्टकर्मक्षयाय च ॥ २६ ॥ युग्मम् । पुरे नन्दवनाख्ये च श्रीजालन्धरभूषणे । अनन्तपालभूपस्य राज्ये कल्पद्रुमोपमे ॥ २७॥ श्रीमद्विक्रमभूपालादष्टषण्मनु १४६८ संख्यके । वर्षे कार्तिकराकायां ग्रन्थोयं पूर्तिमाययौ ॥२८॥ युग्मं । शिष्यः श्रीमजयानन्दगुरो GRAMRACHAARAAR ॥३९७॥ Jan Education Inter For Private & Personal Use Only | www.jainelibrary.org

Loading...

Page Navigation
1 ... 529 530 531 532 533 534