Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 526
________________ Jain Education Internat नाङ्गिनः ॥ ८७ ॥ ततः स्याद्वाद मीमांसा मोक्षहेतुर्विलोक्यते । एकान्तं यत्र यत्र स्यात्तत्र मूढत्वमुह्यतां ॥ ८८ ॥ तत्त्वालोको ह्यनैकान्त्यं बुद्धेः फलमनाग्रहः । मूढैरपि प्रमाणं यत्क्रियते तद्यथातथं ॥ ८९ ॥ अप्रमाणं प्रमाणं स्याहुद्धिमद्भिरुदीरितं । स्याद्वादः सर्वलोकेपि दृश्यते प्रत्ययावहः ॥ १९० ॥ यतो ह्यनेकधर्मत्वं पदार्थानां जगत्रये । संशयः सर्वभावेषु गुणानैक्याद्विलोक्यते ॥ ९१ ॥ तेन प्रमाणं स्याद्वादो लक्ष्यते सर्ववस्तुषु । हेतुदृष्टान्तसंघातो यतो लोकेपि दृश्यते ॥ ९२ ॥ सतमस्त्वं दिनेशस्य क्रूरत्वं शशिनोपि हि । विषस्य प्राणदायित्वं जीवनस्याशुघातनं ॥ ९३ ॥ अचलायाश्च चलनं शैत्यं हुतवहस्य च । घृतस्य ज्वरनाशित्वं मरोः सजलता तथा ॥ ९४ ॥ निर्जलत्वं समुद्रस्य सामर्षत्वं मुनेरपि । बन्धनं विहगानां च शङ्खस्यापि सरागता ॥ ९५ ॥ स्थिरत्वं पवमानस्य घनत्वं सलिलस्य च । कार्तस्वरस्य वैवर्ण्य वज्राणामपि चूर्णता ॥ ९६ ॥ व्यक्तप्राणस्य देहस्य पुनः प्राणसमागमः । शोषणत्वं पयोदस्य हिमान्या दाहकारिता ॥ ९७ ॥ एवं दृष्टान्तलक्षैश्च वस्तुनो नैकधर्मता । ततः प्रामाण्यमायाति स्याद्वादो निश्चितं जने ॥ ९८ ॥ यावन्न केवलज्ञानमुन्मीलति च देहिनां । तावदेव परं ज्ञानं स्याद्वादो निर्मलोदयः ॥ ९९ ॥ अनेकान्तमतं यच्च तदेव ज्ञानमुत्तमं । शेषमज्ञानमाख्येयं चातुर्य वचसां वचः || २०० || सर्व प्रतीतिमायाति स्याद्वादकलितं वचः ॥ एकान्तकथितस्यापि व्यभिचारो विलोक्यते ॥ १ ॥ नमस्कारे तपःकार्ये तथा चावश्यके जले। साधूपकरणे चैव व्यभिचारो य ईक्ष्यते ॥ २ ॥ स कोपि नाप्रमागोस्ति स्याद्वादो जिनशासने । तस्मान्निवारणीयो हि मत्सरः शास्त्रवेदिभिः ॥ ३ ॥ अन्येषु दर्शनेष्वेव For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534