Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
-
स्कन्धाध्ययनादावुद्देशादिवयं च यत् । तच्छुतादानदानादौ गुर्वादेशावधारणं ॥९८॥ तत्र वैनयिकं कर्म| वन्दनादिविनिर्दिशेत् । स्वाध्यायकालग्रहणे शुभध्यानार्थमीरिते ॥ ९९ ॥ इति योगोद्बहननिर्यासः ॥ ॥ वाचनाग्रहणं ज्ञेयं गुरुवकाच्छ्रुतग्रहः । गुरुं विनाखिलं ज्ञानं खपुष्पसदृशं विदुः ॥ १०॥ इति वाचनाग्रहणनिर्यासः॥ ॥ या पुनर्वाचनानुज्ञा सा चार्यादिपदं विना । आज्ञा स्याद्वाचनादाने गुरुणा सर्वदेरिता ॥१०॥ इति वाचनाचार्यनिर्यासः॥ ॥ उपाध्यायपदारोपः समन्त्रस्तस्य कारणं । पाठना द्वादशाझ्यास्तु शिष्याणां तस्य कर्म तत् ॥१०२॥ इति उपाध्यायपदनिर्यासः॥ ॥ यदाचार्यपदं तच तस्य निर्देश उच्यते । सर्वप्रभुत्वं ज्ञानित्वं तपखित्वं सुसाधुता ॥३॥ गुणित्वं बोधकत्वं च लब्धिभाजनता तथा। शमित्वं सर्वयोग्यत्वं सामर्थ्य तत्र कारणं | ॥४॥ यस्तत्रैव पदारोपः स प्रभुत्वाय जायते । मन्त्राद्याराधनायैषा जिनशासनसंविदे ॥५॥ इत्याचार्यपदनिर्यासः॥ ॥ प्रतिमोहनं साधुसाध्वीनां योगसिद्धये । नीरागतायै विषयपरित्यागाय सर्वथा ॥६॥ इति प्रतिमोहननिर्यासः॥ ॥व्रतिनीव्रतदानं च तत्पदद्वयरोपणं । तत्सर्व साधुवज्ज्ञेयं कारणं चरणादिवत् ॥७॥ इति व्रतिनीव्रतप्रवर्तिनीपदमहत्तरापदनिर्यासः ॥ ॥ व्रतिनीव्रतिनोर्यश्च दिनरात्रिस्थितिक्रमः। स संयमस्य निर्वाहहठौपायापघातनः॥८॥ तेषां य उपधिर्धर्मध्वजादिः पूर्वमीरितः। स व्रतस्याराधनार्थ न विज्ञेयः परिग्रहः ॥९॥ इति साधुसाध्वीदिनरात्रिचर्यानिर्यासः॥ ॥ ऋतुचर्या साधुसाध्व्योर्या पुनः परिकीर्तिता । सा कषायेन्द्रियाणां च निग्रहायाभिधीयते ॥ ११० ॥ विहारयुक्तिर्विज्ञेया रागद्वेषादिहारिणी । कायक्लेशाय
RAMACHAR
Jan Education Internet
For Private & Personal Use Only
liww.jainelibrary.org

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534