________________
Jain Education Interna
वत् ॥ १ ॥ तत्र प्रथमं नन्द्यावर्ताराधनार्थमुपवासः । ततो धरणेन्द्राम्बिका श्रुतदेवी श्री गौतमाराधनार्थं आचाम्लचतुष्टयं । ततः परमेष्ठिरत्नत्रयाराधनार्थे आचाम्लाष्टकं । ततः षोडशविद्यादेव्याराधनार्थं षोडशैकभक्तानि । ततश्चतुर्विंशतिशासनयक्षिण्याराधनार्थं चतुर्विंशत्येकभक्तानि । ततो दशदिक्पालाराधनार्थ दशै । कभक्तानि । ततो ग्रहक्षेत्रपालाराधनार्थ दशैकभक्तानि । ततश्चतुर्णिकायदेवताराधनार्थे चत्वार्येकभक्तानि - ततः सर्वाराधनार्थमुपवासः एवमुपवासद्वयं द्वादशाचाम्लानि चतुःषष्ट्येक भक्तानि सर्वदिनान्यष्टाविंशतिः । उद्यापने चैत्ये बृहत्स्नात्रविधिः । धर्मागारे लघुनन्द्यावर्तपूजनं पूर्ववत् । संघवात्सल्यं संघपूजा च । एतत्फलं परत्र तीर्थकरनामगोत्रं इह च सर्वदेवसान्निध्यं । इति यतिश्राद्धकरणीयमागाढं लघुनन्द्यावर्ततपः ॥ २७ ॥ इति फलतपांसि सप्तविंशतिः । इति त्रिविधान्यपि तपांसि संपूर्णानि ॥
अथ विंशतिस्थानकानि । अर्हत्पूजा १ सिद्धपूजा २ प्रवचनपूजा ३ गुरुपूजा ४ स्थविरपूजा ५ बहुश्रुतपूजा ६ तपखिपूजा ७ ज्ञानोपयोग ८ सम्यक्त्वपालनं ९ विनयकरणं १० आवश्यककरणं ११ ब्रह्मचर्यं १२ धर्मध्यानं १३ यथाशक्तितपः १४ वैयावृत्यं १५ समाधिः १६ अपूर्वज्ञानपाठः १७ श्रुतभक्तिः १८ ज्ञानपूजा १९ संघपूजादिकरणं २० इति विंशतिस्थानकाराधनं ॥ एतेषु तपःकरणस्य न निश्चयः किंत्वेषा मुक्तानां आ|राधनमेव करणीयं ॥ अरहंत १ सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सु ए ६ तवस्सी ७ य । वत्सलया य एसिं अभिक्खनाणोवउगे ८ य ॥ १ ॥ दंसण ९ विणए १० आवस्सए ११ य सील वए १२ निरइयारो ।
For Private & Personal Use Only
64
www.jainelibrary.org