Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 504
________________ C HAAGRAANAGAR समक्षं गुरुह्यगुरुर्वा संघपति पीठे निवेशयेत् सभार्य योजितग्रन्थिं च । ततस्तच्छरीरे क्षिप ॐ स्वाहा इत्यादिमन्त्रैः शरीररक्षां कुर्यात् सभार्यस्य । ततः परिधृतमनोज्ञवस्त्राभरणं संघपतिं सभार्य शान्तिकजलैः कुशा-18 ग्रगृहीतैरभिषिञ्चेत् । ततः ॐ शिरसि श्रीं भाले ह्रीं नयनयोः श्री कर्णयोः जं मुखे वं कण्ठे ह्रीं स्कन्धयोः भ्रं भुजयोःक्ष्म्ल्यूँ हृदि ऐं नाभौ बूं ऊर्वोः एवं चन्दनार्चनपूर्व संघपतेः सभार्यस्य शरीरे वर्णन्यासं कुर्यात् । तत-2 श्चन्दनं पौष्टिकदण्डकं पठन् संघपतेः सभार्यस्य तिलकं कुर्यात् । अक्षतान्यारोपयेत् । अष्टविधमर्घ च दद्यात् । वासक्षेपं व्रतारम्भविधिना कुर्यात् । ततो गुरौ पुनर्निषद्यां निषण्णे सर्वेप्यन्ये तपोधनाः श्रावकश्राविकादयस्तिलकं कुर्वन्ति । ततः संघपतिगुरवे श्वेतकौशेयं वर्णमणिकङ्कणं मुद्रासहितं दद्यात् । ततः सर्व-2 साधुभ्यो वस्त्रदानं । संघपूजा महाविस्तरेण विधेया । ततः संघपतिः माण्डलिकमहाघरभाण्डागारिककोहपतिपाणिग्रहप्रभृतीन संघानुसारेण तिलककरणैः परिकल्पयेत् । एवं संघपतिपदारोपणं । तस्योपकरणानि यथा । "देवालयो बिम्बसमन्वितश्च तथातपत्रं चमरौ च कुम्भाः । ध्वजा महातोद्यसमुच्चयस्य चतुर्विधं सैन्यमनुत्तरं च ॥१॥ देवालयाथै शकटाश्च शुभ्रवर्णी च तस्मिन्बलिनी महोक्षौ । कौसुम्भवस्त्रं वृषलूणिद्र कासु देवालयस्यावरणं विशिष्टं ॥२॥ सघुर्घरं नृपुरमण्डलं च महोक्षभूषाकरणं प्रशस्तं । घण्टास्तथा काश्च नकुम्भयुक्तिचतुष्टयं हेममयं च पीठं ॥३॥ कुम्भाक्षतादेश्च विशिष्टपीठान्यारात्रिकं षोडश धातुकुम्भाः। श्रीखण्डकर्पूरनिघर्षहेतोः पाषाणपात्रे वरचन्दनं च ॥ ४॥ सतालवृन्तं शुभधूपपात्रं निर्मार्जनं कुम्भपिधा Jain Education inte For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534