Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचारदिनकरः
॥ ३८७ ॥
Jain Education Inter
श्रवणपुनर्वसु मृगाश्विनी पुष्याः । रेवत्यपि देवगणः पूर्वोत्तरायास्त्रये भरण्यार्द्रा ॥ १४ ॥ रोहिण्यपि मर्त्यगणो ज्येष्ठा मूलद्वयं घनिष्ठायाः । आश्लेषाकृत्तिकाचित्रा मघाविशाखा पलादगणः ॥ १५ ॥ खकुले परमा प्रीतिर्मध्यमा देवमर्त्ययोः । देवराक्षसयोर्वैरं मरणं मर्त्यरक्षसोः ॥ १६ ॥ मकरवृषमीनकन्यावृश्चिककर्काष्टमे रिपुत्वं स्यात् । अजमिथुनधन्विहरिघटतुलाष्टमे मित्रतावश्यम् ॥ १७॥ शत्रुषट्काष्टके मृत्युः कलहो नवपञ्चमे । द्विद्वदशेऽथ दारिद्र्यं शेषेषु प्रीतिरुत्तमा ॥ १८ ॥ त्रिपञ्चसप्तमी तारा चान्योन्यं गुरुशिष्ययोः । वर्जनीया शुभाय स्यादेकनाडीगतं तु भं ॥ १९ ॥ तथा योनि १ वर्ग २ लभ्यालभ्य ३ गण ४ राशिभेद ५ शुद्धं नाम दद्यात् । नाम स्यात्पूर्वतः साधोः शुभो देवगुणागमैः । जिनकीर्तिरमाचन्द्रशीलोदयधनैरपि ॥ २० ॥ विद्याविमलकल्याणैर्जीव मेघदिवाकरैः । मुनित्रिभुवनाभोजैः सुधातेजोमहानृपैः ॥ २१ ॥ दयाभावक्षमासूरैः सुवर्णमणिकर्मभिः । आनन्दानन्तधर्मेश्च जयदेवेन्द्रसागरैः ॥ २२ ॥ सिद्धिशान्तिलब्धिबुद्धिसहजज्ञानदर्शनैः । चारित्रवीरविजयचारुराम मृगाधिपैः ॥ २३ ॥ महीविशालविबुधविनयैर्नयसंयुतैः । सर्वप्रबोधरूपैश्च गणमेरुवरैरपि ॥ २४ ॥ जयन्तयोगताराभिः कलापृथ्वीहरिप्रियैः । एतत्प्रभृतिभिः पूर्वपदैः स्यादभिधा पुनः ॥ २५ ॥ शशाङ्ककुम्भशैलाब्धिकुमारप्रभवल्लभैः । सिंहकुञ्जरदेवैश्व दत्तकीर्तिप्रियैरपि ॥ २६ ॥ प्रवरानन्दनिधि भी राजसुन्दरशेखरैः । वर्धनाकर हंसैश्व रत्नमेरुसमूर्तिभिः ॥ २७ ॥ सारभूषणधर्मैश्च केतुपुंगवपुण्ड्रकैः । ज्ञानदर्शन वीरैश्च | पदैरेभिस्तथोत्तरैः ॥ २८ ॥ जायन्ते साधुनामानि स्थितैः पूर्वपदात्परैः । अन्यानि यानि सहजनामानि विदि
|
For Private & Personal Use Only
विभागः २ पदारोपविधिः
॥ ३८७ ॥
www.jainelibrary.org

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534