Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
Jain Education Inters
सा सूत्रमात्रेणालंध्या जायते पुण्यचेतसां ॥ ३३ ॥ मर्यादारहितानां च बन्धनं शृङ्खलैरपि । न करोति निषेधं तु तस्मात्सर्व मनोगतं ॥ ३७ ॥ एतदर्थं हृदि परं स्थापनं सूत्रसंमतं । तस्य यद्वैपरीत्यं तदनिष्ठे पितृकर्मणि ॥ ३८ ॥ शरीरे सावधानत्वं सर्वत्रापि हि कर्मणि । व्रतबन्धोऽयमादिष्टो व्रतादेशः सुधीमतां ॥ ३९ ॥ अन्यस्य व्रतदानाज्ञा ततो व्रतविसर्जनं । ब्रह्ममुद्रापरित्यागैस्तदाचारस्य पालनं ॥ ४० ॥ आशातनाभयान्नैव मुद्रा संस्थाप्यते चिरं । उपवीतशिखामात्रं तत्क्रियायुकूस्थिरं पुनः ॥ ४१ ॥ गोदानं यत्पुनस्तत्र स दानारम्भ उच्यते । दानं वर्णप्रविष्टस्य सफलं ज्ञानयोगतः ॥ ४२ ॥ अज्ञानत्वकृतं च स्याद्विफलं कर्म सत्तमं । यगोप्रदानं प्रथमं तस्य कारणमुच्यते ॥ ४३ ॥ गौ: सर्वोत्तमतामाप्ता सर्वत्राप्युपकारकृत् । स्यादन्यवस्तु चैकत्र कर्मण्ये - वोपकारकं ॥ ४४ ॥ शिक्षा तु वर्णाचारस्य कथनं धर्मबोधनं । शूद्राणामुत्तरीयादिरत्नत्रयविवर्जितं ॥ ४५ ॥ आचाराधानवत्सूत्रयुक्त्या पाल्यं तदेव हि । ब्रह्मत्वं पूज्यतारूपं न कर्मादेशमर्हति ॥ ४६ ॥ नापमानं न नीचाज्ञां न परं कुप्रतिग्रहम् । न श्लाघां न प्रशंसां च कर्तुमन्यस्य कस्यचित् ॥ ४७ ॥ अतः स्थलक्रियाभाजां भट्टादीनां बटूकृतिः । रत्नत्रयस्य तन्मुद्राधारणं नाममात्रतः ॥ ४८ ॥ इत्युपनयननिर्यासः ॥ ॥ पाठारम्भो दीक्षितस्य वर्णिनो नापरस्य च । अवर्णः पाठ्यते किंवा स स्याद्वासर उत्तमे ॥ ४९ ॥ इति पाठारम्भनिर्यासः ॥ विवाहो नाम दम्पत्योर्लोकप्रत्यक्ष संगमः । कृतं जनसमक्षं स्यात्कर्म निर्वादहेतवे ॥ ५० ॥ प्रच्छन्नं यत्कृतं कर्मतदन्याय्यं जनो वदेत् । अतो विवाहप्रारम्भ उत्सवेन विधीयते ॥ ५१ ॥ अन्यगोत्रभवानां च यः संबन्धो
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534