Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
विभागः२ पदारोपविधिः
आचार- मिके समीकुर्यादिति परमेष्ठिमुद्रा १, वामकलाचिकाया उपरि दक्षिणकलाचिकां निधाय परामुखहस्ताभ्यामदिनकरः
गुली विदर्य तथास्थितावेव हस्तौ परिवर्त्य अङ्गुलीमध्ये विध्यात्सामुद्गरमुद्रा दुष्टभञ्जनी २, वामहस्तोपरि
दक्षिणकरं कृत्वा कनिष्ठाङ्गुष्ठाभ्यां मणिबन्धं संवेष्टय शेषाङ्गुलीनां विस्फारितप्रसारणेन वज्रमुद्रा विषहरी ३, ॥३८५॥
आत्मनोभिमुखदक्षिणहस्तकनिष्ठिकया वामकनिष्ठिकां संगृह्याधःपरावर्तितहस्ताभ्यां गरुडमुद्रा ४, चतुरङ्गलमग्रतः पादयोरन्तरं किंचिन्यूनं च पृष्ठतः कृत्वा समपादकायोत्सर्गेण जिनमुद्रा सुप्रतिष्ठाकरी ५, किंचिद्गर्मिती हस्तौ समौ विधाय ललाटदेशयोजनेन मुक्ताशुक्तिमुद्रापुण्यवृद्धिकरी ६, किंचिदाकुञ्चितकरशाखौ पाणी विधाऽपयेदित्यञ्जलिमुद्रा विनयकरी ७, अन्योन्यग्रथिताङ्गुलीषु कनिष्ठिकानामिकयोर्मध्यमातर्जन्योश्च संयोजनेन गोस्तनाकारा सुरभिमुद्रा वाञ्छितकरी ८, पद्माकारौ करौ कृत्वा मध्येऽङ्गुष्ठौ कर्णिकाकारौ विन्य|स्येति पद्ममुद्रा लक्ष्मीप्रदा ९, वामहस्ततले दक्षिणहस्ततलं निवेश्य करशाखौ विरलीकृत्य प्रसारयेदिति चक्रमुद्रा सर्वरक्षाकरी १०, परस्पराभिमुखौ ग्रथिताङ्गुलीको करौ कृत्वा तर्जनीभ्यामनामिके गृहीत्वा मध्यमे प्र
सारयन् तन्मध्येऽङ्गुष्ठद्वयं निक्षिपेदिति सौभाग्यमुद्रा सौभाग्यकरी ११, हस्तद्वयस्य शिप्राकारकृतस्य यमलतरीत्या स्थापितस्य मुखोपरि स्थापनं वन्दनवत् यथाजाता मुद्रा कर्मक्षयकरी १२, करद्वयाङ्गुल्योः परस्परमीलि
तयोः पञ्चसु स्थानेषु शिखावत्स्थापनं आरात्रिकमुद्रा पूजाप्रापणकरी १३, सुखासनस्थस्य वरदाकारौ हस्तौ ४.वीरमुद्रा सर्वरक्षाकरी १४, नम्रशिरसः करयोजने कृते विनीतमुद्रा पूजागुपयोगिनी १५, प्रसारितौ करौ
Jan Education Inter
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534