Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचार
दिनकरः
॥ ३८४ ॥
Jain Education Interna
नवस्त्रं । करण्डिका मेरुरथाम्बुकुण्डं भृङ्गारुरचकर मानुषाश्च ॥ ५ ॥ नैवेद्यपात्राणि चतुष्किकाश्च चन्द्रोदयाः प्रोन्नतदीपकाञ्च । तदर्थगत्री लघुदीपकाश्च वाद्यानि सर्वाणि मनोहराणि ॥ ६ ॥ तद्वादका आर्हतगायनाश्च महाध्वजाः सद्गुरुविष्टराश्च । दौवारिकाः सत्पटमण्डपाश्च नानाप्रकारा धवला निवासे ॥ ७ ॥ प्रस्थानकाले बहुसंघपूजा जिनार्चनं बन्दिविमोचनं च । सत्साधुयोग्याः शकटाश्च तेषां भक्ताम्बुचिन्ता भृशसेवनं च ॥ ८ ॥ | महाधरा माण्डलिका अमात्या दौवारिकाः पाणिधरा भटाश्च । वाचंयमार्थे पटमण्डपाश्च कौद्दालिकाः कारु जनाश्च सर्वे ॥ ९ ॥ महाचरुस्ताम्रकटाहिकाश्च सत्सूपकारा वणिजः सहट्टाः । पानीयशाला तुरगोपयोगिवस्तूनि वैद्या बहुबन्दिनश्च ॥ १० ॥ पहालया वस्तुषु भिन्नरूपा मनुष्यवाह्यानि सुखासनानि । भोज्यार्थपात्राणि च शुष्कशाकास्तथा च ताम्बूलविशेषयुक्तिः ॥ ११ ॥ लघुप्रयाणं सजले सवृक्षे बह्निन्धने भूमिपदे निवासः । मयूरपिच्छातपवारणानि मार्गे च चैत्यानि विलोक्य सम्यक् ॥ १२ ॥ महापूजां ध्वजारोपं महः संघार्चनं महत् । विधाय तद्वासिमुनीन्सार्थे कृत्वा ततश्चलेत् ॥ १३ ॥ एवं पुरेषु ग्रामेषु येषु येषु जिनालयाः । तेषु तेषु ध्वजारोपं महापूजां विधापयेत् ॥ १४ ॥” कुलकं । इति संघपतेरुपकरणानि ॥ ततोऽध्यवसिततीर्थं संघपतिः संप्राप्य तीर्थदर्शनमात्रेण महोत्सवं महादानं कुर्यात् । ततः संघपतिः समस्तसंघसहितो गुरून्साधूनग्रे कृत्वा महार्घ्यरत्नस्खर्णमुद्राफलोपायन हस्तोऽर्हदग्रे ढौकनिकां कृत्वा दण्डवत्प्रणामं विधाय शक्रस्तवपाठेन तीर्थेशान्वन्देत । ततो वृहत्स्नात्रविधिना स्नात्रं महापूजा चैत्यपरिपाटी जिनमूर्ती बहुमूल्याभरणरोपणं
For Private & Personal Use Only
विभागः २ पदारोप
विधिः
॥ ३८४ ॥
www.jainelibrary.org

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534