________________
C
HAAGRAANAGAR
समक्षं गुरुह्यगुरुर्वा संघपति पीठे निवेशयेत् सभार्य योजितग्रन्थिं च । ततस्तच्छरीरे क्षिप ॐ स्वाहा इत्यादिमन्त्रैः शरीररक्षां कुर्यात् सभार्यस्य । ततः परिधृतमनोज्ञवस्त्राभरणं संघपतिं सभार्य शान्तिकजलैः कुशा-18 ग्रगृहीतैरभिषिञ्चेत् । ततः ॐ शिरसि श्रीं भाले ह्रीं नयनयोः श्री कर्णयोः जं मुखे वं कण्ठे ह्रीं स्कन्धयोः भ्रं भुजयोःक्ष्म्ल्यूँ हृदि ऐं नाभौ बूं ऊर्वोः एवं चन्दनार्चनपूर्व संघपतेः सभार्यस्य शरीरे वर्णन्यासं कुर्यात् । तत-2 श्चन्दनं पौष्टिकदण्डकं पठन् संघपतेः सभार्यस्य तिलकं कुर्यात् । अक्षतान्यारोपयेत् । अष्टविधमर्घ च दद्यात् । वासक्षेपं व्रतारम्भविधिना कुर्यात् । ततो गुरौ पुनर्निषद्यां निषण्णे सर्वेप्यन्ये तपोधनाः श्रावकश्राविकादयस्तिलकं कुर्वन्ति । ततः संघपतिगुरवे श्वेतकौशेयं वर्णमणिकङ्कणं मुद्रासहितं दद्यात् । ततः सर्व-2 साधुभ्यो वस्त्रदानं । संघपूजा महाविस्तरेण विधेया । ततः संघपतिः माण्डलिकमहाघरभाण्डागारिककोहपतिपाणिग्रहप्रभृतीन संघानुसारेण तिलककरणैः परिकल्पयेत् । एवं संघपतिपदारोपणं । तस्योपकरणानि यथा । "देवालयो बिम्बसमन्वितश्च तथातपत्रं चमरौ च कुम्भाः । ध्वजा महातोद्यसमुच्चयस्य चतुर्विधं
सैन्यमनुत्तरं च ॥१॥ देवालयाथै शकटाश्च शुभ्रवर्णी च तस्मिन्बलिनी महोक्षौ । कौसुम्भवस्त्रं वृषलूणिद्र कासु देवालयस्यावरणं विशिष्टं ॥२॥ सघुर्घरं नृपुरमण्डलं च महोक्षभूषाकरणं प्रशस्तं । घण्टास्तथा काश्च
नकुम्भयुक्तिचतुष्टयं हेममयं च पीठं ॥३॥ कुम्भाक्षतादेश्च विशिष्टपीठान्यारात्रिकं षोडश धातुकुम्भाः। श्रीखण्डकर्पूरनिघर्षहेतोः पाषाणपात्रे वरचन्दनं च ॥ ४॥ सतालवृन्तं शुभधूपपात्रं निर्मार्जनं कुम्भपिधा
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org