________________
आचार
दिनकरः
॥ ३८३ ॥
Jain Education Inter
सदृशी । इति पदारोपाधिकारे वैश्यशूद्रपदारोपविधिः ॥ ॥ अथ महाशूद्रा आभीराः तेषां पदारोपो ग्रामाध्यक्षत्वं । स च नृपादेशादेव । शिक्षा तेषां ग्रामाधिपतित्वसदृशी पूर्वोक्तैव ॥ ॥ कारूणां च पदारोपः खखज्ञातिमुख्यत्वकरणं स च नृपदत्तैर्वस्त्रादिभिः खर्णमयरूप्यमयैश्च तत्तत्कारूपकरणैर्भवति । तेषां शिक्षा कर्माधिकारिसदृशी । इति पदारोपाधिकारे महाशूद्रकारुपदारोपविधिः ॥ ॥ अथ पशूनां पदारोपः । तत्र हस्त्यश्ववृषभादयो मुख्यत्वमानीताः श्रेष्ठाः पदमाप्नुवन्ति । ते च पूर्व पञ्चगव्यतीर्थोदकगन्धोदकैः संस्नापिताः प्रशस्य वस्त्राच्छादिताः यक्ष कर्दमपुष्पमालादिपूजिताः गुर्वग्रे स्थाप्याः । गुरुश्च प्रतिष्ठाधिकारोक्तैस्तदधिवास|नमन्त्रैस्तानधिवासयेत् । ततश्च नृपादिस्तान्सम्यक्संपूज्य अध्यास्ते । इति पशूनां पदारोपणविधिः ॥
अथ चातुर्वर्ण्यप्रशस्या तीर्थकर नामकर्मकृतानुबद्धा भोगमोक्षदायिनी सर्ववाञ्छितफलप्रदा चक्रवर्तिपदा दप्युत्कृष्टा सत्या संघपतिपदारोपयुक्तिरभिधीयते । तत्र सर्वर्द्धिसम्पन्नः पुरुषः सर्वविशिष्टगृहस्थगुणश्रावकगुणसहितो विशुद्धवासनावान् संपूर्णधनः मीलितचतुर्विधसंघो विमुक्तक्रोधमानमायालोभो गुरुदेवभक्तोऽनादितीर्थयात्रायै कल्पादितीर्थयात्रायै वा संघपतिपदं गृह्णाति तस्य चायं विधिः । तत्र लग्नं विवाहदीक्षामतिष्ठासमं प्रास्थानिकनक्षत्रयुक्तं च । तत्र वर्षमासदिनलग्नानि सर्वाणि विवाहवत् शुद्धानि गवेष्यन्ते पदा-| रोपप्रस्थानयोग्यानि नक्षत्राणि च । तथा पूर्व तगृहे शान्तिकं पौष्टिकं च विदध्यात् । ततो लग्नवेलायां संप्रासायां महावाद्येषु वाद्यमानेषु महादानेषु दीयमानेषु मङ्गलेषु गीयमानेषु बन्दिचारणेषु पठत्सु चतुर्विधसंघ
For Private & Personal Use Only
विभागः २
पदारोप
विधिः
॥ ३८३ ॥
1. www.jainelibrary.org