________________
-
नीकाधिपतिः गजानीकाधिपतिः तुरगानीकाधिपतिः पदात्यनीकाधिपतिः सैन्यसंवाहकः धर्माधिकारी भाण्डागारिकः कोष्ठागारिकः पुरोहितसंसप्तकप्रभृतयो भवन्ति । तेषां सर्वेषां लक्षणानि यथा-"कुलीनाः कुशला धीराः शूराः शास्त्रविशारदाः । स्वामिभक्ता धर्मरताः पूजावात्सल्यशालिनः॥१॥ सर्वव्यसननिमुक्ताः शुचयो लोभवर्जिताः । समाशयाश्च सर्वेषु नृपवस्तुसुरक्षकाः॥२॥ परापेक्षाविनिमुक्ता गुरुभक्ताः ४| प्रियंवदाः । महाशया महाभाग्या धर्मे न्याये सदा रताः॥३॥ अप्रमादाः प्रसन्नाश्च प्रायः कीर्तिप्रिया अपि।
कर्माधिकारे योग्याः स्युरीदृशाः पुरुषाः परं ॥४॥” एतेषां सर्वेषां कर्माधिकारिणां पदारोपो नृपादेशात्तद्दत्तखड्गदण्डाङ्कुशकशावीरमुष्टिभिर्वचनमात्रैर्वा भवति । तेषां सर्वेषां शिष्या यथा-"स्वामिना यदिदं कर्म न्यस्तं विश्वासतस्त्वयि । अत्र प्रमादो नो कार्यों विधेयं स्वामिवाञ्छितं ॥१॥ प्रजा न पीडनीयास्तु खण्ड्यं पत्युन कर्म च । अर्जनीयं नयाद्वित्तं न हेयं सत्वमुत्तमं ॥२॥ प्रजाधने नृपधने न कार्या कर्हि चित्स्पृहा । एवं शिक्षा सदा देया सर्वकर्माधिकारिषु ॥३॥” इति पदारोपाधिकारे कर्माधिकारिपदारोपविधिः ॥ ॥ अथ वैश्यशूद्रयोः मन्त्रिसेनाधिपतिकर्माधिकारिपदानि प्रसन्ननृपदत्तानि भवन्ति । तेषां विधिः पुरातन एव, किंतु श्रेष्ठिसार्थवाहगृहपतिपदान्यधिकानि । तत्र प्रेष्टिनस्सर्ववणिग्वर्गश्रेष्ठा नृपपूज्याः कार्यकारिणो भवन्ति । सार्थवाहाः सर्वदेशेषु सर्वभूपतिमानिताः विविधवाणिज्याः सार्थस्वामिनो भवन्ति । गृहपतयस्तु नृपाणां सर्वद्रव्याधिकारनिरता विश्वासपात्रं भवन्ति । तेषां पदारोपो नृपादेश एव। शिक्षा कर्माधिकारि
-
-
Jan Education inte
For Private & Personal use only
www.jainelibrary.org