SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ आचार विभाग: २ पदारोप दिनकरः विधिः ॥३८२॥ कारिप्रभृतयः तिलकमुद्राप्राप्तितः पूर्व पश्चाच्च शान्तिकं पौष्टिकं कारयन्तीति सर्वयुक्तिः । मन्त्रिपदे नृपहस्तात् मुद्रावस्त्रादिप्राप्तिरेव पदारोपः । अस्योपकरणानि नृपादेशप्रसादलभ्यानि न तत्र नियमः । तस्य शिष्या सविस्तरा-सामनीतिकामन्दकीनीतिचाणक्यनीतिश्रावणेन गुरुणा देथा। इति पदारोपाधिकारे मन्त्रिपदारोपविधिः॥ ॥ अथ सेनापतित्वं । तत्र सेनापतयः समस्तनृपकटकयोधननिवर्तनबद्धकक्षाः नृपस्य प्राणा इव भवन्ति । सेनापतिलक्षणं यथा-"शूरः प्रियंवदो मानी बुद्धिमान्बहुबन्धुभाक् । सपक्षो बहुभृत्यश्च सर्वदेशपथानुगः॥१॥ दाता सौभाग्यवान्वाग्मी विश्वासपरिवर्जितः । कृतास्त्रः कृतयुद्धश्च सैन्यावेशकृतश्रमः ॥२॥ अहर्निशं निःप्रमादः सर्वव्यसनवर्जितः । सेनाधिपत्ये योग्यः स्यादीदृशः पुरुषः सुधीः॥३॥” सेनाधिपतीनां पदारोपः नृपदत्तवस्त्रसुवर्णदण्डरूपः । केचिच्च सेनापतीनां खामिहस्तात्तिलकमप्युदीरयन्ति । तस्य शिष्या यथा-"त्वया परबलावेशो बुद्ध्या बाहुबलेन च । भञ्जनीयो नो विधेयो विश्वासः कस्यचित्परं ॥१॥ परस्य मण्डलं प्राप्य कार्या नाऽनवधानता । अल्पेपि परसैन्ये च महान्कार्य उपक्रमः॥२॥ देशं कालं बलं टू पक्षं षाड्गुण्यं शक्तिसंगमं । विलोक्य भवता शत्रुरभियोज्यो न चान्यथा ॥३॥ वस्वामिनो जयो देयः कार्य स्खप्राणरक्षणं । दण्डनायकमुत्कृष्टमित्येवं शिक्षयेद्गुरुः ॥४॥ इति पदारोपाधिकारे सेनापतिपदारोपविधिः॥ ॥ अथ कर्माधिकारिपदं । तत्र कर्माधिकारिणः । प्रतीहारः कोदृपतिः दहपतिः नलरक्षकः शुल्कालाधिपतिः रूप्याधिपतिः स्वर्णाधिपतिः कारुकाधिपतिः अन्तःपुराधिपतिः शूद्राधिपतिः किंकराधिपतिः रथा-1 ॥३८२॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy